SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेद: प्रथमः॥ अष्टसहस्री विवरणम् ॥ ॥ १११॥ पार्थिवत्वादिनाप्युपादानोपादेयभावो नियतारम्भनयेऽन्यथा तु शक्तिविशेषेण जलादिपरमाणोरपि पार्थिवारम्भस्य बहुलमुपलम्भात्, पुद्गलपर्यायत्वावच्छिन्ने पुद्गलद्रव्यत्वेनोपादानोपादेयभावस्तु कल्पनीयोऽन्यथाऽसमानजातीयद्रव्यपर्यायेमनुष्यादौ पुद्गलान्त्यविशेषानुपलम्भापत्तेः, इत्थमपि च चिदचितोभिन्नोपादानोपादेयत्वमव्याहतमव्यासज्यवृत्तिधर्मत्वादिति दिक् । 'पूर्वाकारेति' (१०२-१-११) द्रव्यार्थिकनयेनात्र देवादिपर्यायध्वंसविशिष्टात्मत्वेन तदव्यवहितोत्तरपर्यायत्वेनोपादानोपादेयभावः, पर्यायार्थिकनयेन तु स्वध्वंसत्वसम्बन्धेन देवादिपर्यायस्य मनुष्यादिपर्यायत्वावच्छिन्ने तादात्म्येनेति विशेषो द्रष्टव्यः । तस्य तेनाव्याप्तिरिति भिन्नलक्षणत्वस्य तत्त्वान्तरभावेन सह व्याप्यव्यापकभावाभावइत्यर्थः।' मदजननशक्तिसद्भावादिति' (१०२-१-१४ ) तथा च साजात्यविशेषेण भिन्नलक्षणत्वविरोधादित्यर्थः । 'इष्टप्रतिष्ठानादिति' (१०२-२-३ ) चैतन्यशक्त्यन्वयिन आत्मद्रव्यस्यैव सिद्धेर्वीतरागजन्मादर्शनन्यायात्तस्य भूतनामकरणेऽपि वस्त्वव्याघातादित्यर्थः । तद्विवर्त्तत्वप्रसङ्गादिति (१०२-२-३) साजात्यविशेषस्य विनिगमकस्यानभ्युपगमारित्यर्थः । कादाचित्कत्वाचितो न विवर्त्तवत्वं भविष्यतीत्यत आह-'अनाद्यनन्तत्वाविशेषादिति' भूतचैतन्ययोरित्यर्थः। तथा चेच्छामात्रेणोपादानोपादेयभावाभ्युपगमेऽतिप्रसङ्गो दुर्वार इति भावः । 'चैतन्यविशेष इति' (१०३-१-६) अनावृतसर्वविषयकचैतन्य इत्यर्थः । न च कूटस्थनित्यात्मश्रुतिश्चैतन्यविशेषावस्थानाभ्युपगमविरोधिनीनिर्द्धर्मकत्वस्य कूटस्थपदार्थत्वे चित्यधर्मस्याप्युच्छेदापत्तेस्तस्याश्रयाभिन्नातव्यावृत्त्यात्मकत्वेऽनन्तविशेषाणामपि तथात्वसम्भवात् सामान्यप्रतिज्ञाव्याघातानित्यत्वस्यापि च कथंचिन्नयविशेषेणैवोपपत्तेरिति, अनुभवेन (१०३-१-९) बुद्धिनिष्ठप्रतिबिम्बहेतुविम्बचैतन्यलक्षणेनेत्यर्थः । For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy