SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir तीतोनागतश्च, तत्सम्बन्धित्वेन रावणशङ्खादिः । तथा दर्शनयोग्यादेशाभिन्नदेशोऽनुपलब्धियोग्यस्तत्सम्बन्धित्वेन मकराकरादि । तद्भिअलक्षणसम्बन्धित्वादिना स्वभावकालदेशविप्रकर्ण्यपि कस्यचित्प्रत्यक्षं साधितम् । सोत्र भगवानहन्नेव, न पुनः कपिलादय इति । एतत्कुतो निश्चितमिति चेत्, अन्येषां न्यायागमविरुद्धभाषित्वात् । ये न्यायागमविरुद्धभाषिणस्ते न निर्दोषा यथा दुवैद्यादयः, तथा चान्ये कपिलादय इत्यनुमानान्न्यायागमाविरुद्धभाषिण एव भगवतोहतो निर्दोषत्वमवसीयते । न चात्र न्यायागमविरुद्धभाषित्वं कपिलादीनामसिद्धं, तदमिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रसिद्धेन प्रमाणेन बाधनात्। तत्र कपिलस्य तावत् "स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष” इत्यभिमतं तत्प्रमाणेन बाध्यते, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं, सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादि स्वरूपं, नात्मन इति चेत्, न, तस्याचेतनत्वादाकाशवत् । ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्, कुतस्तदचेतनत्वसिद्धिः? अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटादिवदित्यनुमानादिति चेत्, न, हेतोरनुभवेन व्यभिचारात् , तस्य चेतनत्वेप्युत्पत्तिमत्त्वात् । कथमुत्पत्तिमाननुभव इति चेत्, परापेक्षत्वाद् बुद्ध्यादिवत् । परापेक्षोसौ बुद्ध्यध्यवसायापेक्षत्वात् “ बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते” इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात् । सर्वस्य सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्य मेव स्यात् । यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदित्यसिद्धो हेतुः। ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति चेत्, तर्वानुभवविशेषाणामप्युत्पत्तिमत्त्वादनैकान्तिकोसौ कथं न स्यात् ? नानुभवस्य विशेषाः सन्तीति चायुक्तं, वस्तुत्वविरोधात् । तथा हि । नानुभवो वस्तु, सकलविशेषरहितत्वात् खरविषाणवत् । नात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मकत्वादन्यथा तद्वदवस्तुत्वापत्तेः । कालात्य ॐॐॐॐॐॐॐ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy