________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
निरन्वयक्षणक्षयस्य प्रतिक्षेपात् । ननु च यथायः पथिकाग्निररणिनिर्मथनोत्थोनग्निपूर्वको दृष्टः परस्त्वग्निपूर्वक एव, तथाधं चैतन्य कायाकारादिपरिणतभूतेभ्यो भविष्यति, परं तु चैतन्यपूर्वकं, विरोधाभावात् । इति कस्यचित्प्रत्यवस्थितिः स्वपक्षघातिनी जातिरेव, चिद्विवर्तत्वस्य हेतोः साध्येन व्याप्तेरखण्डनात् । प्रथमपथिकानेरनग्न्युपादानत्वे जलादीनामप्यजलाद्युपादानत्वोपपत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । तथा हि । येषां परस्परमुपादानोपादेयभावस्तेषां न तत्त्वान्तरत्वम् । यथा क्षितिविवर्तानाम् । परस्परमुपादानोपादेयभावश्च पृथिव्यादीनाम् । इत्येकमेव पुद्गलतत्त्वं पृथिव्यादिविवर्त्तमवतिष्ठेत । अथ क्षित्यादीनां न परस्परमुपादानोपादेयभावः, सहकारिभावोपगमात् । कथमपावकोपादानः प्रथमः पथिकपावकः प्रसिद्धवेद्यतस्तद्वदचेतनपूर्वकं प्रथमचैतन्यं प्रसज्येत ? यथैव हि प्रथमावि तपादकादेस्तिरोहितपावकान्तरादिपूर्वकत्वं तथा गर्भचैतन्यस्याविभूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति किन्न व्यवस्था स्यात् ? स्यान्मतं, सहकारिमात्रादेव प्रथमपथिकामेरुपजननोपगमात्तिरोहिताग्न्यन्तरोपादानत्वमसिद्धमिति, तदसत्, अनुपादानस्य कस्यचिदुपजननादर्शनात् । शब्दविद्युदादेरुपादानादर्शनादोष इति चेत् , न, शब्दादिः सोपादान एव, कार्यत्वाद् , घटादिवदित्यनुमानात्तस्यादृश्योपादानस्यापि सोपादानत्वस्य साधनात् । नन्वस्तु सर्वोग्निरग्न्यन्तरोपादान एव सर्वस्य सजातीयोपादानत्वव्यवस्थितेः। चेतनस्य तु चेतनान्तरोपादानत्वनियमो न युक्तः, तस्य भूतोपादानत्वघटनात् , भूतचेतनयोः सजातीयत्वात्तत्त्वान्तरत्वासिद्धेरिति चेत्, न, तयोर्मिनलक्षणत्वात्तत्त्वान्तरत्वोपपत्तेः; तोयपावकयोरपि तत एव परैस्तत्त्वान्तरत्वसाधनात् । तथा हि । तत्त्वान्तरं भूताच्चैतन्यं, तद्भिअलक्षणत्वान्यथानुपपत्तेः । न तावदसिद्धो हेतुः क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य तद्भिन्नलक्षणत्वसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि, अस्मदाद्यनेकप्रतिपत्तप्रत्यक्षत्वात् । यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं, यथा
For Private And Personal Use Only