________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandi
PRASHAROSAROSAGAR
ऽयमाक्षेपपरिहारश्चतुरस्र इति मन्तव्यम् । अनुमेयत्वहेतोरर्थान्तरेणाप्युभयवादिसिद्धतां प्रदर्शयनज्ञानासिद्धिं परिजिहीर्घराह 'अथवाऽनुमेयत्व' (९५-१-८) मित्यादि, न हेतोरिति (९५-१-११) सर्वथैकान्तेषु श्रुतज्ञानाधिगम्यत्वमस्ति प्रत्यक्षत्वं च नास्तीति हेतोर्व्यभिचारित्वं नोद्भावनीयम् । यतस्तेषां दृष्टेष्टबाधितत्वमस्ति अबाधितश्रुतज्ञानविषयत्वं च हेतुर्विवक्षितः स च श्रुताज्ञानविषये नास्तीति, एतेन 'अत्यन्तासत्यपि' इतिन्यायेन शाब्दबोधविषये शशशृङ्गादावपि न व्यभिचार इत्युक्तं भवति, स्थानत्रयाविसंवादि (१२) सूक्ष्मान्तरितदूरस्थलत्रयेऽपि विसंवादरहितम् , अप्रयोजकत्वशङ्कानिरासपरस्तेऽनुमेया इत्यादिर्भाष्यवृत्तिग्रन्थस्तत्र बीजं निरुपाधिसहचार एव ज्ञानं क्वचिदाश्रितं गुणत्वादित्याद्यनुमानसहस्रे तस्येव तर्कस्य सम्भवाल्लाघवादिरपि तस्यैवोपजीव्यत्वादिति ध्येयम् । यत्र (९५-२-८) सर्वज्ञे साध्ये, तं सर्वज्ञम् , कथमिति न कथञ्चिदित्यर्थः । न चोक्तदिशा सत्प्रतिपक्षावतारादत्र हेत्वाभासत्वमित्यपि शङ्कनीयम् । एकत्र साध्यतदभावसाधकहेतुद्वयोपनिपात एव तदभिधानात् , सूक्ष्माद्यर्थानां प्रत्यक्षत्वे साध्ये तदभावसाधकहेत्वनुत्थानात् सूक्ष्माद्यर्थसाक्षात्कारिणोऽसिद्धौ तन्नास्तित्वसाधकस्य चाश्रयाऽसिद्धत्वादिति भावः । दिग्नागमतमालम्ब्य शङ्कते । 'ननु च सर्वज्ञस्येत्यादि (९५-२-१०)' अनुमानमात्रोच्छेदकत्वादयं विकल्पो नाश्रयणीय इत्याशयवानुत्तरयति स हि तावदेवमित्यादिना न सम्बध्यत (९५-२-१४) इति न साक्षात्कारजनकप्रत्यासत्याश्रयो भवतीत्यर्थः । तेन यं कश्चित् सम्बन्धमादाय न बाधः प्रवर्त्तनाभावाष्ट्रव्यचाक्षुषादिजनकविलक्षणचक्षुःसंयोगादिरूपव्यापारजननाभावादित्यर्थः। 'किमिन्द्रियेणेवान्तःकरणेनेति' (९७-२-३) साक्षात्कारत्वावच्छिन्नं प्रतीन्द्रियत्वेनेव जन्यज्ञानत्वावच्छिन्न प्रति मनस्त्वेनापि हेतुत्वाभावात्
For Private And Personal Use Only