SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir शरीरत्वेन गृहीत इति (८९-२-३) अण्णुण्णाणुगयाणं' इत्यादि सम्मत्युक्तरीत्या शरीरात्मनोः कथञ्चिदेकत्वेन तथैव | लोकलोकोत्तरानुभवसिद्धत्वेन चात्मगृहीतमुक्ते पृथिव्यादिशरीरे बुद्ध्यादिनिःशेषध्वंसस्य युक्तियुक्तत्वादिति भावः । नहि प्रतियोगिसमवायिदेश एव ध्वंसप्रागभावौ स्त इति नैयायिकवचनं श्रद्धातुमर्ह, समवायिकारणनाशजन्यद्रव्यनाशस्य निरधिकरणत्वापत्तेः, न च समवायिकारणसमवायिकारणमेव तत्राधिकरणं, तन्नाशस्थलेऽप्यधिकरणचिन्तायां परमाणुविश्रामापत्तेः, तद्गतस्य च तस्य यथा प्रतीतिसम्बन्धविशेषेण स्थूलावयवनिष्ठताभ्युपगमे किमपराद्धमधिकरणान्तरेण, येन तत्र तद्वत्ताप्रतीति-10 सिद्धावप्यपलप्येतेति दिक । आवरणहानिर्न साध्या द्रव्यार्थपर्यायार्थविकल्पानुपपरित्याशयवानाह पूर्वपक्षे 'ननु च यदीत्यादि' (९०-१-९) स्वसमानाधिकरणस्वप्रतियोगिजातीयप्रागभावासमानकालीनत्वविशेषणादावरणत्वावच्छिन्नध्वंसस्य वा साध्यत्वान्न दोषइत्यभिप्रायवान् सिद्धान्तयति सोऽप्यनवबुद्धतत्त्व (९०-१-११) इत्यादिना, सकलकर्मपर्यायनाशस्य कर्मत्वविशिष्टद्रव्यनाशनियतत्वेऽपि तदुपलक्षितद्रव्यनाशानियतत्वान्न निरन्वयनाशापत्तिरित्याह-'सकलकर्मेत्यादि' || (९०-२-३) ननु कर्मपर्यायत्वावच्छिन्ने कर्मद्रव्यत्वेनाकर्मपर्यायत्वावच्छिन्ने चाकर्मद्रव्यत्वेन हेतुत्वात् कथं मुक्तौ कर्मद्रव्यस्या कर्मपर्यायाक्रान्ततया परिणमनमिति चेत् , न । पुद्गलद्रव्यस्यैवावस्थाविशेषेण कर्माकर्मात्मकतया परिणमनादन्योन्याभावस्याव्याप्यवृत्तित्वादुभयरूपतोपपत्तेः, नन्वेवं जीवद्रव्यमपि निःशेषितजीवपर्यायमजीवपर्यायानाददानमजीवद्रव्यं स्यात् , तद्रव्यस्य तदन्यद्रव्यपर्यायपरिणमनाभावव्याप्यत्वोपगमे च कर्मद्रव्यमण्यकर्मपर्यायपरिणामि न स्यादिति चेत्, न जीवाजीवपरिणामयोः प्रदेशविरोधस्य कर्माकर्मपरिणामयोश्च कालविरोधस्य सिद्धान्तसिद्धत्वेनोक्तप्रतिवन्धयोगात् द्रव्यत्वसाक्षाद् For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy