SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अष्टसहस्री विवरणम् ॥ ॥९१॥ परिच्छेदः प्रथमः। -- -- -60 यदपकर्षति तत् तद्विरोधि सिद्धम् । यथोष्णस्पर्शः प्रकृष्यमाणः शीतस्पर्शमपकर्षस्तद्विरोधी। मिथ्यादर्शनादिकमपकर्षति च प्रकृष्यमाणं कचित्सम्यग्दर्शनादि, तत् तद्विरोधि । कथं पुनः सम्यग्दर्श नादेः कचित्परमप्रकर्षसद्भावः सिद्ध इति चेत् , प्रकृष्यमाणत्वात् । यद्धि प्रकृष्यमाणं तत्कचित्परमप्रकर्षसद्भावभाग्दृष्टम् । यथा नभसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि । तस्मात्परमप्रकर्षसभावभाक् । परत्वापरत्वाभ्यां व्यभिचार इति चेत् , न, तयोरपि सपर्यन्तजगद्वादिनां परमप्रकर्षसद्भावभाक्त्वसिद्धेः। न चापर्यन्तं जगदिति वक्तुं शक्य, विशिष्टसन्निवेशत्वात्पर्वतवत् । यत्पुनरपर्यन्तं तन्न विशिष्टसन्निवेशं सिद्धं, यथा व्योम। विशिष्टसन्निवेशं च जगत् , तस्मात्सर्वतः सपर्यन्तमिति निगदितमन्यत्र । संसारेणानेकान्त इति चेत्, न, तस्याप्यभव्यजीवेषु परमप्रकर्षसद्भावसिद्धौ प्रकृष्यमाणत्वेन प्रतीतेः । एतेन मिध्यादर्शनादिभिर्व्यभिचारः प्रत्याख्यातः, तेषामप्यभव्येषु परमप्रकर्षसद्भावात् । ततो नानैकान्तिकं प्रकृष्यमा णत्वं परमप्रकर्षसद्भावे साध्ये । नापि विरुद्धं, सर्वथा विपक्षाव्यावृत्तः । इति कचिन्मिथ्यादर्शनादिविरोधि सम्यग्दर्शनादि परमप्रकर्ष सद्भावं साधयति । स च सिध्यन्मिध्यादर्शनादेरत्यन्तनिवृत्तिं गमयति । सा च गम्यमाना स्वकार्यसंसारात्यन्तनिवृत्ति निश्चाययति । यासौ संसारस्यात्यन्तनिवृत्तिः सा मुक्तिरिति । तदन्यथानुपपत्तेरात्मनो ज्ञानादिगुणस्वभावत्वसिद्धेन दोषस्वभावत्वसिद्धिः, विरोधात् । प्रसिद्धायां कचिदात्मनि निःश्रेयसभाजि गुणस्वभावतायामभव्यादावपि तन्निर्णयः, जीवत्वान्यथानुपपत्तेः, प्रसिद्धे च सर्वस्मिन्नात्मनि ज्ञानादिगुणस्वभावत्वे दोषस्वभावत्वासिद्धेः सिद्धं दोषस्य कादाचित्कत्वमागन्तुकत्वं साधयति । ततः स एव परिक्षयी स्वनिहासनिमित्तविवर्द्धनवशादिति सुस्पष्टमाभाति, दोषनिहासनिमित्तस्य सम्यग्दर्शनादेविशेषेण वर्द्धनप्रसाधनात् । इत्यावरणस्य द्रव्यकर्मणो दोषस्य च भावकर्मणो भूभृत इव महतोत्यन्तनिवृत्तिसिध्धेः कर्मभूभृतां भेत्ता मोक्षमार्गस्य प्रणेता स्तोतव्यः समवतिष्ठते विश्वतत्त्वानां ज्ञाता च । ॥९ 25% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy