________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री
परिच्छेदः प्रथमः॥
विवरणम् ॥
॥९
॥
पपत्तेः । शब्देन व्यभिचार इति चेत् , न, तस्य द्रव्यतया ध्रौव्याभ्युपगमात् । विद्युत्प्रदीपादिभिरनेकान्त इत्ययुक्तं, तेषामपि द्रव्यत्वतो ध्रुवत्वात् , क्षणिकैकान्ते सर्वथार्थक्रियाविरोधस्याभिधानात् । ततो यादृशी मणेर्मलादेया॑वृत्तिहानिः परिशुद्धिस्तादृशी जीवस्य कर्मणां निवृत्तिहाँनिः। तस्यां च सत्यामात्यन्तिकी शुद्धिः सम्भाव्यते, सकलकर्मपर्यायविनाशेपि कर्मद्रव्यस्याविनाशात् , तस्याकर्मपर्यायाक्रान्ततया परिणमनाद्, मलद्रव्यस्य मलात्मकपर्यायतया निवृत्तावप्यमलात्मकपर्यायाविष्टतया परिणमनवत् । तदेतेन तुच्छ: प्रध्वंसाभावः सर्वत्र प्रत्याख्यातः, कार्योत्पादस्यैव पूर्वाकारक्षयरूपत्वप्रतीतेः । समर्थयिष्यते चैतत् “ कार्योत्पादः क्षयो हेतोर्नियमात्" इत्यत्र । तेन मणे: कैवल्यमेव मलादेवैकल्यम् । कर्मणोपि वैकल्यमात्मकैवल्यमस्त्येव ततो नातिप्रसज्यते । द्रव्यार्थतया बुद्धरात्मन्यप्यविनाशात्सर्वात्मना परिक्षयाप्रसङ्गात , पयार्थतया परिक्षयेपि सिद्धान्ताविरोधात् । ननु च यथा कर्मद्रव्यस्य कर्मस्वभावपर्यायनिवृत्तावप्यकर्मात्मकपर्यायरूपतयावस्थानं तथात्मनो बुद्धिपर्यायतया निवृत्तावप्यबुद्धिरूपपर्यायतयावस्थानात् सिद्धान्तविरोध एवेत्यतिप्रसज्यते इति चेत,न,वैषम्यात्। कर्मद्रव्यं हि पुद्गलद्रव्यम् , तस्यात्मनि पारतन्त्र्यं कुर्वतः कर्मत्वपरिणामस्तदकुर्वतोऽकर्मत्वपरिणामेनावस्थानं, रूपादिमत्त्वसामान्यलक्षणत्वात्पुद्गलद्रव्यस्य कर्मत्वलक्षणत्वाभावादविरुद्धमभिधीयते । बुद्धिद्रव्यं तु जीवः । तस्य बुद्धिः पर्यायः । तत् सामान्य लक्षणम् , "उपयोगो लक्षणम्" इति वचनात् । न च लक्षणाभावे लक्ष्यमवतिष्ठते, तस्य तदलक्षणत्वप्रसक्तेर्येनाबुद्धिपर्यायात्मकतयावस्थानं जीवस्य निःशेषतो बुद्धिपरिक्षयेप्यविरुद्धं स्यात् । नन्वेवमज्ञानादेर्दोषस्य पर्यायार्थतया हानिर्निश्शेषा सिद्धयेदावरणवन्न पुनद्रव्यार्थतया बुद्धिवत् । ततो दोषसामान्यस्यात्मन्यवस्थानान्न निर्दोषत्वसिद्धिरित्यपरः, सोप्यतत्त्वज्ञ एव, यतः प्रतिपक्ष एवात्मनामागन्तुको मलः परिक्षयी स्वनिहोसनिमित्तविवर्द्धनवशात् द्विविधो ह्यात्मनः परिणामः स्वाभाविक आगन्तुकश्च । तत्र स्वाभाविकोऽनन्तज्ञानादिरात्मस्वरूपत्वात्,
॥९०
For Private And Personal Use Only