SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेद प्रथमः। ॥८४॥ SHRESS धर्माद्युपदेशोपपत्तेरिति गम्यम् । अन्त्ये त्वाह-'धर्माद्युपदेशस्येति' (४४-१-३) त्रयीवित्सम्बन्धी धर्माद्युपदेशोऽन्यथाऽपि सार्वयाभावेऽपि महाजनपरिग्रहेणैवोपपद्यत इति भावः । 'उपदेशो ही त्यादि (४४-१-४) कारिका पूर्वपक्षपरा, बुद्धादयो ही (४४-१-५)त्यादिकारिकाद्वयं विकल्पद्वयसमाधानपरम् , तत्र येत्विति (४४-१-५) अस्या अयमर्थः । ये तु मन्वादयस्त्रयीविदां मध्ये प्राधान्येन सिद्धाः, कीदृशा इत्याह-त्रयीविद्भिराश्रितो ग्रन्थः स्मृत्यादिरूपो येषां कर्तृणां ते तथाते मन्वादयो वेदप्रभवोक्तयः (४४-१-६) साङ्गमीमांसाध्ययनसमासादितव्युत्पत्तिविशेषसधीचीनवेदार्थानुसन्धानप्रभवशुद्धधर्माद्युपदेशा इत्यर्थः, तथा च तदुपदेशस्य वेदार्थविवेकेनान्यथोपपद्यमानत्वान्न सर्वज्ञगमकत्वमित्यर्थः, 'न च गृध्रेत्यादि' (४४-२-२) गृध्राणां चक्षुःप्रत्यक्षेण वराहाणां श्रोत्रप्रत्यक्षेण पिपीलिकानां च घ्राणप्रत्यक्षेणेत्यर्थः, नक्तंचरप्रत्यक्षेण (४४-२-३) घूकबिडालमूषकतस्करादिप्रत्यक्षेणेत्यर्थः, प्रत्यक्षादीत्यादिनाऽनुमानादेरपि साध्ये सङ्ग्रहातु तत्र व्यभिचारसम्भवप्रदर्शनायाह 'कात्यायनादीति' (४४-२-३) तस्यापीति (४४-२-४) उक्तप्रत्यक्षादेरपीत्यर्थः । एवं चेन्द्रियाद्यघटितसामग्रीजन्यत्वनिषेधस्य साध्यत्वादवान्तरविशेषेणापि सामान्यसामग्र्यनुल्लङ्घनान्न व्यभिचार इति भावः । ननु सर्वमिदं प्रत्यक्षमात्रस्येन्द्रियजन्यत्वसिद्धावुपपद्यते तदेव नास्ति ऐंद्रियकप्रत्यक्ष एवेन्द्रियस्य हेतुत्वादत आह-'न च दृष्टेत्यादि' (४४-२-१३) प्रत्यक्षत्वावच्छिन्न एव लाघवेनेन्द्रियस्य हेतुत्वादिन्द्रियजन्यतावच्छेदकजात्यन्तरकल्पने गौरवान्नातीन्द्रियप्रत्यक्षसम्भावनेत्यर्थः । 'त्रिविप्रकृष्टेति' (१५-१-१)त्रिः स्वभावदेशकालैविप्रकृष्टा इत्यर्थविशेषणेनापि, बाधकासम्भवादिति (४५-१-३) यद्यप्येवं साधकप्रामाण्यग्राहकत्वं बाधकासम्भवस्य व्यवतिष्ठते न तु स्वातंत्र्येण साधकत्वं, तथापि व्यवहारादेः साधकस्य शङ्का BREALCASSACCCCCCES ॥८४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy