SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir SA5605640SACARS विषयाप्रतिपत्तेरस्पृष्टता चाभिमुख्योपलक्षणमिति नातिप्रसङ्गः,तयोः संस्कारा (४३-१-६) लब्ध्युपयोगयोः संस्काराः,जन्यजनकभावसम्बन्धे षष्ठी, संस्कारशब्दार्थो न स्वरूपार्थग्रहणोन्मुखता, तस्या उपयोगरूपत्वेन तदजन्यत्वादित्यतो व्याचष्टे, खार्थधारणा इति (४३-१-६) लब्ध्युपयोगजन्यस्मृतिजनकधारणारूपा इत्यर्थः । तेषां लब्ध्युपयोगसंस्काराणाम् , अत्यये अभावे सति ज्ञ एव स्यादिति (४३-१-६)किश्चिद्ज्ञत्वनियामकलब्ध्युपयोगसंस्काराभावे सत्यर्थतएव सर्वज्ञः स्यात् , तज्ज्ञाने इन्द्रियाजन्ये प्रत्यक्षत्वं चातीन्द्रियत्वादेवाविरुद्धम् , व्यवहारप्रत्यक्षत्वे इन्द्रियजन्यत्ववनिश्चयप्रत्यक्षत्वे इन्द्रियाद्यजन्यत्वस्यापि प्रयोजकत्वादिति भावः । न च प्रत्यक्षत्वमेवेन्द्रियजन्यतावच्छेदकं लाघवादितीन्द्रियसंस्काराभावेऽतीन्द्रियप्रत्यक्षानुपपत्तिरिति शङ्कनीयम्, परेणापीश्वरप्रत्यक्षव्यावृत्त्यर्थ प्रत्यक्षनिष्ठवैजात्यस्यैवेन्द्रियजन्यतावच्छेदकत्वोपगमादस्माकं तत्र केवलज्ञानव्यातत्वोपगमे दोषाभावात् । अत एव न मतिज्ञानाद्यावरणक्षये क्षायिकमतिज्ञानाद्यापत्तिः, भावेन्द्रियसंस्काररूपकेवलेतरप्रत्यक्षत्वावच्छिन्नसामय्यभावात् सामान्यसामग्रीसहकृताया एव विशेषसामय्याः फलोपधायकत्वात् , तदिदमाह-'कुतःपुनरित्यादि' (४३-१-६)न च सकलावरणसंक्षय (४३-१-९) इति, तथा च सकलावरणसंक्षयाविनाभूतो भावेन्द्रियाभाव एवार्थवशसिद्धमतीन्द्रियं सर्वविषयकं प्रत्यक्षमनुमापयतीति भावः । 'देशघातीत्यादि' (४३-१-१०) इहायं सम्प्रदायः-देशघातिनीनां मतिज्ञानावरणादिप्रकृतीनां द्विविधानि रसस्पर्घकानि भवन्ति सर्वघातीनि देशघातीनि च, कानि तानीति चेत् , यानि चतुःस्थानकानि त्रिस्थानकानि च, तानि सर्वाणि सर्वघातीन्येव, यानि पुनर्द्विस्थानकानि तानि मिश्राणि कानिचित्सर्वघातीनि कानिचिच्च देशघातीनीत्यर्थः । यान्येकस्थानकानि तानि तु देशघातीन्येव, तदुक्तं-" चउतिहाणरसाई, For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy