________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
कारकस्यैवोपगमात् , यत्तु घटत्वप्रकारतानिरूपितलौकिकविषयताया घटत्वज्ञानजन्यतावच्छेदककोटौ निवेशाद् घटो नास्तीत्यादौ घटायंशे लौकिकसनिकर्षघटितसामय्यभावानोक्तापतिः, ज्ञातघटादिज्ञानं च ज्ञानलक्षणात एवेति, तदसत् , घटत्वादिप्रकारतानिरूपितलौकिकविषयताया जन्यतावच्छेदककोटौ निवेशने सामान्यलक्षणाजन्यघटादिमानसासनहात , अथ सामान्यघटितसामग्रीव्याप्तौ घटत्वादिप्रकारकलौकिकप्रत्यक्षसामग्र्यादेस्तादृशसामग्रीत्वेन घटचक्षुःसंयोगत्वादिना वान निवेशः, ताहशधर्माणां कारणतानवच्छेदकत्वात् , कारणतानवच्छेदकधर्मावच्छिन्नस्य सामग्रीव्याप्तिमध्ये निवेशनेनातिप्रसङ्गवारणे सर्वमतसिद्धबहुतरकार्यकारणभावविलयप्रसङ्गात् , तथा चालोकसंयोगावच्छिन्नचक्षुःसंयोगत्वादिनैव लौकिकप्रत्यक्षादिहेतवः सामग्रीव्याप्तिमध्ये निवेशनीया इति तादृशचक्षुःसंयोगादिसमवहितं घटत्वादिज्ञानं यदा यत्र कारणतावच्छेदकप्रत्यासत्या तदव्यवहितोत्तरक्षणे तत्र कार्यमित्येतादृशी सामग्रीव्याप्तिः स्वीकार्या, तत्र चक्षुःसंयोगादिसमवहितत्वमेकक्षणवृत्तित्वसम्बन्धेन, नत्वेकदेशवृत्तित्वसम्बन्धेन, स्वविषयीभूतसामान्याश्रयत्वप्रत्यासत्त्या सामान्यज्ञानहेतुतामते तादृशसम्बन्धेन घटत्वज्ञानादीनां घटचक्षुःसंयोगादिसमानदेशतासम्भवेऽपि पटादौ घटत्वादिभ्रमजनकदोषकाले घटत्वादिज्ञानेन यावद्घटादिचाक्षुषजननादेकदेशवृत्तित्वनिवेशासम्भवात् , एवं च दोषाभावेऽपि पटादिचक्षुःसंयोगमादाय चक्षुःसंयोगादिकालवृत्तित्वविशिष्टसामान्यज्ञानमहिम्ना घटत्वादिज्ञानकार्यापत्तिः, घटचक्षुःसंयोगदशायां व्यभिचारेण सामग्रीव्याप्तौ दोपनिवेशस्याप्यसम्भवादिति चेत्, न । बाधाभावादिघटितसामग्रीव्याप्तावप्यस्य दोषस्य तुल्यत्वात् , तत्रापि घटाभावादिप्रकारकचाक्षुपनिश्चयाभावादिघटितसामग्रीव्याप्ती सन्निकर्षादीनां घटचक्षुःसंयोगत्वादिना निवेशासम्भवाच्चक्षुःसंयोगत्वादिनैव तेषां निवेशनीयतया पटा
S
+
+
For Private And Personal Use Only