SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥७७॥ न्यत्वं द्रव्यार्थादेशेनोह्यते तद्ज्ञानात्तावद्व्यक्तिप्रतिपत्तिरूहात्मिका प्रतिपत्तव्या, न चेत् एवं तदा ज्ञायमानात् सामान्याद् यावत्तदाश्रयस्येव ज्ञायमानविशेषात् यावत्तदाश्रितस्यापि प्रत्यक्षोदयाभ्युपगमेन सामान्यलक्षणावद्विशेषलक्षणापि बलात्प्रत्यासत्तिपदवीमासादयेत् , न च तत्र विशेषस्य सामान्यनाममात्रकरणेनापि निस्तारः, पर्यवनयव्युत्क्रान्तानामर्थानां यथोत्तरं युक्तिबाधेन स्वलक्षणमात्रविश्रान्तप्रतीतौ प्रत्यासत्यन्तरकल्पनापत्तेः। एवं घटाद्यर्थेऽपि भेदाभेदादिविचारे निर्विकल्पपर्यवसाने द्रष्टव्यम् । ऊहव्यापारोपगमे तु न कुत्रापीदृशस्थले विचारणीयमस्ति । अत्र फलीभूतबोधापलापे तु सामान्यप्रत्यासचिजबोधोऽपीपत्करापलव इति ध्येयम् । इदमप्यत्र वदन्ति, निर्विकल्पकसाधारणसामान्यज्ञानस्य प्रत्यासत्तित्वमते ज्ञानप्रत्यासत्तेर्हेतुत्वे मानाभावः । घटो नास्ति सुरभि चन्दनमित्यादौ घटसौरभादीनां घटत्वसौरभत्वसामान्यलक्षणप्रत्यासत्तिबलादेव भानोपपत्तेः । न च सामान्यप्रत्यासत्या फलजनने किश्चिदंशे सामान्यप्रकारकज्ञानसामग्र्यन्तरस्यापेक्षितत्वादुपदर्शितस्थले च घटाद्यशे घटत्वप्रकारकज्ञानसामग्र्यन्तरविरहेण कथं घटत्वादिसामान्यलक्षणया घटादिज्ञानं जननीयमिति वाच्यम् , तत्र सामान्यज्ञानविधया घटादिप्रकारकप्रत्यक्षजनकघटादिज्ञानघटितोपनीतभानसामग्र्या एवं सत्चात् । ज्ञानलक्षणायाः पृथग्घेतुत्व एव विवादात् घटसामान्यलक्षणाया अपि च प्रकृतघटत्वादिसामान्यलक्षणातिरिक्ततया सामय्यन्तरत्वोपपत्तेः, घटत्वसौरभत्वादिसामान्यलक्षणाप्रत्यासत्तेर्जन्यतावच्छेदककोटावपि घटत्वसौरभत्वादिविषयता निविशते नतु तदाश्रयविषयतेति तवृत्तिधर्मज्ञानाभावेन तया तद्भानानिर्वाहान्न तदर्थमपि ज्ञानलक्षणा कल्प्यते, न च रजतत्वादिना शुक्त्याधुपंनीतभानानुरोधेन ज्ञानलक्षणप्रत्यासत्तेः पृथक्कारणत्वकल्पनमावश्यकं, तत्र शुक्तिवृत्तिधर्मज्ञानाभावेन सामान्यलक्षणातस्तद For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy