SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir चावच्छेद्यावच्छेदकभावः प्रथमं ग्रहीतुं शक्यः, तद्वद्विशेष्यकत्वस्य पूर्वमनुपस्थितेः, द्वितीयानुव्यवसायेन तु प्रामाण्यग्रहो घटत एव, विशेष्यताप्रकारतयोः प्रथमानुव्यवसाये मनःसंयुक्तसमवेतविशेषणतया भातत्वात्तद्वद्विशेष्यकत्वतत्प्रकारत्वयोर्ज्ञाने भानसम्भवात् । न चैवं प्रामाण्यसंशयानुपपत्तिः, दोषवशाद् यत्र प्रामाण्यं न गृहीतमनुव्यवसायेन तत्र तत्संशयसम्भवात् , अन्यथा पुरुषत्वस्य चक्षुर्वेद्यत्वात्तत्संशयोऽपि न स्यात् , न चैवं मिश्रमते स्वतो ग्राह्यत्वमागतम् , असति प्रतिबन्धके यावत्स्वाश्रयानुव्यवसायग्राह्यत्वस्य स्वतस्त्वस्य प्रथमानुव्यवसायेन प्रामाण्याग्रहनयेऽसंस्पर्शात् , एवं च साध्यप्रसिद्धावनुमानमपि तद्ग्राहकम् ,इदं पुरुषज्ञानं प्रमा करादिमति पुरुषज्ञानत्वात् ,सम्प्रतिपन्नवदिति संगच्छते । चिन्तामणिकृतस्तु प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यते, न च साध्याप्रसिद्धिः व्यतिरेकिणि साध्यहेत्वोाप्तिग्रहानपेक्षणात् , किन्तु साध्याभावहेत्वभावयोरेव तदपेक्षणात् साध्याप्रसिद्धरकिश्चित्करत्वात् । न च साध्याप्रसिद्धौ तदभावाप्रसिद्धिः, प्रतियोगिज्ञानसाध्यत्वादभावज्ञानस्येति वाच्यम् , तस्य प्रतियोगिरूपत्वात् , प्रतियोगिज्ञाने चाभावज्ञानस्याकारणत्वात् , एवं च यद्धविच्छिन्नव्यापकतया यद्धविछिन्नयद्धेत्वभावो गृहीतस्तद्धर्मावच्छिन्नेन तेन तद्धविच्छिन्नाभावः सिद्ध्यतीति प्रकृतज्ञाने करादिमद्विशेष्यकत्वावच्छिन्नपुरुषत्वप्रकारकज्ञानत्वेनाप्रामाण्याभावसिद्धिः । न च साध्याज्ञाने कथं तद्विशिष्टज्ञानरूपाउमितिरिति वाच्यम् , अप्रामाण्याभावविशेष्यिकाया एवानुमितेरभ्युपगमादित्याहुः । तेषां मते उक्तहेतुतावच्छेदकावच्छिन्नहेतुग्रहः केन वाच्यः । ___ अनुव्यवसायेनेति चेत् , तर्हि ततः पुरुषत्ववति पुरुषत्वग्रहः केन वार्यतां, यत्तमपहायैष कुसृष्टयादर इति चिन्त्यम् , अत्र मीमांसकमतदूषणे नैयायिकानामेव भारः, नैयायिकमतेऽप्युक्तप्रामाण्यस्य द्वितीयानुव्यवसायादेवावगतौ सकृत्संवेदन + For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy