________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
TRANSLCook
है| भिधानं चैतद्दाक्य । अदोष इति (३९-१-२) अनवस्थादोषो नेत्यर्थः । किमर्थमिति (३९-१-३) प्रामाण्य
परीक्षणं विनाऽपि प्रवृत्तेर्जातत्वादित्यर्थः। लोकवृत्तानुवादार्थमिति ( ३९-१-३) प्रेक्षावल्लोकाचारानुरोधार्थमित्यर्थः, तथा च प्रेक्षावत्प्रवृत्तौ प्रामाण्यनिश्चयस्य हेतुत्वात् तदादरध्रौव्यमिति लभ्यते, तत्तहि लोकवृत्तमित्यादि (३९-१-३) तथा च प्रामाण्यपरीक्षणं मदिष्टसाधनं प्रेक्षावदाचारविषयत्वादित्यादौ प्रेक्षावत्पदार्थाभ्रान्तत्वघटकप्रामाण्यज्ञापकान्वेषणे प्रागुक्तदोपजालोपनिपातो दुर्निवार इति प्रघट्टकार्थः । नाप्यविसंवादित्वेनेति (३९-१-११) एतेनान्यथा वेति पक्षो व्याख्यातः, एतच्च सौगताभिमतं प्रामाण्यं तत्त्वोपप्लववादिना दृष्यत इति बोध्यम् । तदव्यवस्थितौ (३९-२-८) प्रमाणतत्त्वाव्यवस्थितौ, कुत इति (३९-२-८) प्रमाणतत्वव्यवस्थाधीनत्वात् प्रमेयतत्त्वव्यवस्थितेरिति भावः। विचारादित्यतः (३९-२-९) पूर्व तस्मादित्यध्याहार्यम् । तस्मात्प्रमाणतत्त्वप्रमेयतत्त्वाव्यवस्थानाद्विचारोत्तरं तत्वोपप्लवः सिद्ध्यतीत्यर्थः, एवं निर्गलिते तत्त्वोपप्लववादिपूर्वपक्षे सिद्धान्तमाह स्याद्वादी इत्येतदपि सर्वमसारमित्यादि ( ३९-२-९) किं तर्हि सुनिश्चितासम्भवहाधकत्वेनेति (३९-२-१५) ननु किमिदं प्रामाण्यज्ञापकाभिधानम् उत स्वरूपाभिधानं, नाद्यो ज्ञापकत्वस्येवादुष्टकारकसन्दोहोत्पाद्यत्वादेरपि त्यागायोगात् , ज्ञानधर्मत्वेनाभ्यासानभ्यासकाले ज्ञाप्यज्ञापकभावस्य व्यवहारान्तर्भावानन्तर्भावाभ्यां तद्व्यवस्थायाश्च सर्वत्र वक्तुं शक्यत्वात् , स्ववृत्तितयाऽभ्यस्तज्ञानगृहीतेन तेन तजातीयत्वलिङ्गावतारद्वारा पूर्वज्ञानप्रामाण्यग्रहसाम्ये एकतरपक्षपातायोगाच्च, अत एव न द्वितीयोऽपि, स्वप्रकाशमहिम्ना स्वस्येवोक्तस्य सर्वस्य प्रामाण्यस्यापि स्वधर्मत्वेन ग्रहणाविशेषात् , स्वधर्मोऽपि योग्य एव ग्राह्यो नायोग्यः, अन्यथा स्वर्गप्रापणशक्तेरपि ग्रहणप्रस
%A4%A4%95
For Private And Personal Use Only