________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ६८ ॥
66
www.kobatirth.org
विकल्पविशेषणम्, विकल्पाघटित एव वा संवादो ग्राह्यः, अध्यक्षमूलकस्याध्यक्षान्तरस्य सविकल्पकस्य च सम्भवात् तथा च परप्रत्यक्षादेः संवादकत्वेन प्रामाण्यसम्भावना सुकरैव, स्वाध्यक्षस्यापि निर्विकल्पकस्य सन्मात्रावगाहित्वस्वविषयत्वप्रामायावगाहित्वानां स्वरूपतः स्वग्राह्यतैव, तत्तद्रूपेण तु सम्भावनाविपयतैव, असद्विषयत्वाभावव्याप्येन सद्विषयत्वेन सन्मात्रावलम्नत्वस्य स्वप्रकाशत्वव्याप्येन प्रकाशत्वेन स्वविषयत्वस्यानवस्थापादकपरग्राह्यत्वशून्यत्वे सति ग्राह्यत्वेन प्रामाण्यस्यापि स्वग्राह्यत्वस्य तथा तथा सम्भावनाविषयत्वात् न चैवं तेषां रूपाणामसच्चापत्तिः, स्वरूपातिरिक्तत्वे इष्टत्वात्, नहि निर्विकल्पकं सन्मात्रावलम्बनमित्यादिबुद्धेस्तन्मते प्रमात्वम्, अयं घट इत्यादिधियामपि प्रमात्वापत्तेः इत्येवं तत्रतः प्रत्यक्षमेव प्रमाणं, सम्भावनारूपव्यवहाराच्चनुमानादिकमपीति चार्वाकमतमुपपत्स्यत इति चेत्, न, स्वरूपतो निर्विकल्प ग्राह्यत्वस्य तत्तद्रूपेण सम्भावनाग्राह्यत्वस्य च भेदाभेदात्मकवस्त्वभ्युपगमं विनानुपपत्तेः, व्यक्तेरिव जात्यादेरपि परमार्थसत्त्वेन सविकल्पकस्यापि सन्मात्रावलम्बनत्वाद्, अनुमिनोमीति विलक्षणप्रतीतिसिद्धप्रमान्तरजनकत्वेनानुमानस्यापि प्रमाणान्तरतायाश्चान्यत्र व्यवस्थापितत्वादिति दिक । शून्यवादिमतमुत्थाप्य दूषयति भाष्यकृत् - तथेष्टत्वादित्यादिना (३६-२-६) तथेष्टत्वात् प्रत्यक्षादिप्रमाणं प्रमेयं च सर्वमुपप्लुतमेवेतीष्टत्वान्न दोष:, इति इयम्, एकेषां प्रत्यक्षाद्युच्छेद इत्येकं शून्यमिच्छन्ति ये तेषाम्, अप्रमाणिकैवाप्रमाणसिद्धैव, इष्टिः प्रतिज्ञा, सर्वमुपप्लुतमिति वचनमात्रात्तत्त्वोपप्लवसिद्धौ सर्वमनुपप्लुतमिति वचनात् तदनुपप्लवस्यापि सिद्ध्यापत्तेरिति तदर्थः, वृत्तौ न विशिष्यत (३६-२-७) इत्यनन्तरं वाङ्मात्रेणेति शेषः, स्वयमसिद्धमिति (३६-२-१) शून्यवादस्य निरस्तत्वादिति भावः । तथासतीति (३६-२-१०) यदृच्छयेन्द्रियप्रत्यक्षादेः प्रमाणान्तराभाव
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ६८ ॥