SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ ६२ ॥ www.kobatirth.org पदीयं “ गुणीभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यत " ॥ १ ॥ इति, आख्यातस्य च फलाश्रये व्यापाराश्रये च शक्तिः, तत्र फलाश्रयः कर्म, व्यापाराश्रयः कर्त्ता, शक्यतावच्छेदकं चाश्रयत्वं, शक्तिविशेषरूपं, न तु फलादिगर्भ, फलादेर्धातुलभ्यत्वात् । मानञ्च तत्र 'लः कर्मणि भावे चाकर्मकेभ्य इति सूत्रमेव, अत्र हि चकारात् कर्त्तरि कृदिति सूत्रोक्तं कर्त्तरीत्यनुकृष्य बोधकतारूपां तिबादिशक्तिं तत्स्थानिभूते लकारे प्रकल्प्य तस्य कर्मकर्तृविषयविधानात् न च दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति शङ्कनीयम् । तद्वदेव कृतामपि कर्तृकर्मावाचकत्वापत्तेः कर्त्तरि क्रुदित्यस्य लः कर्मणीत्यनेन तुल्ययोगक्षेमत्वात्, अपि च मीमांसकानां कृतामित्राख्यातानामपि कर्तृवाचकत्वमस्तु भावनायाश्चाक्षेपत एव लाभ:, घटमानयेत्यादावाक्षेपितव्यक्तेरिव तस्याः प्राधान्योपपत्तेः । पचतीत्यादौ भावनाया विवरणदर्शनाद् वाच्यत्वमिति चेत् न, पाकानुकूलव्यापारवतः कर्त्तुरपि विवरणविषयत्वाविशेषात् न च कर्तुर्विवरणं तात्पर्यार्थविषयं पाकं करोतीत्यत्राशब्दार्थकर्मत्वविवरणवदितरेतरद्वन्द्वे समुच्चयांशविवरणवद्वेति न तदर्थनिर्णायकमिति वाच्यम् । भावनायां तुल्यत्वात् किं च पचति देवदत्त इत्यत्राभेदान्वयदर्शनात् कर्तुर्वाच्यत्वमावश्यकं पक्ता देवदत्त इत्यत्रेव, नचाभेदबोधे समानविभक्तिमत्त्वं नियामकं तदभावानात्र स इति वाच्यम् । सोमेन यजेत स्तोकं पचति राजपुरुष इत्यादावप्यभेदबोधानापत्तेः । न च कर्त्तरि लक्षणया सामानाधिकरण्यं, पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वानापत्तेररुणाधिकरणोच्छेदापत्तेरिति दिक । अत्र फले व्यापारः प्रधानं, तिङर्थाः कर्तृकर्मसङ्ख्याकाला विशेषणानि, | तत्रापि कर्तृकर्मणी व्यापारफलयोर्विशेषणे, संख्या कर्तृप्रत्यये कर्त्तरि, कर्मप्रत्यये कर्मणि, समानप्रत्ययोपात्तत्वात् । तथा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ।। ॥ ६२ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy