SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir lain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 2544444 धुनिकत्वलाभात् , क्रियात्वं च व्यापारत्वं, न तु धात्वर्थत्वम् , अन्योन्याश्रयात् , न चान्यतमत्वं धातुत्वं,भूवादय इति सूत्रबैयापत्तेः, न च सत्तादीन् फलांशानन्यतमत्वेनादाय तद्वाचकत्वे सति गणपठितत्वमेव लक्षणमुच्यतामिति वाच्यम् , तदन्यतममध्ये विकल्पस्यापि विकल्पयतीति प्रयोगानुसारेण प्रवेशध्रौव्यात् तदर्थकचकारे तिव्याप्तेरिति बोध्यम् , क्रियावाचकत्व एव हि धातोः कार्यमग्निष्टोमयाजीत्यादौ कर्मणि करणोपपदे कर्तरि च ण्यत् णिनिप्रत्ययोपपत्तिः, विना क्रिया कारकत्वासम्भवेन तद्वाचकप्रत्ययस्याप्यसम्भवात् । न च गम्यमानक्रियामादाय कारकयोगइति भट्टरीतियुक्ता, आख्यातस्थलेऽपि तदापत्तौ भावनायास्तदर्थत्वप्रवादस्य दत्तजलाञ्जलित्वप्रसङ्गात्, एतेन प्रकृते लिङ्गसंख्यान्वयानुरोधात् कर्तुर्वाच्यत्वध्रौव्यात् तेनाक्षेपाद्भावनाप्रत्ययः सुघट इत्यपास्तम् । एवं सत्याख्यातेऽपि संख्यान्वयानुरोधेन क र्वाच्यत्वप्रसङ्गात् , किञ्चैवं नखैभिन्नो नखभिन्नो हरिणा त्रातो हरित्रात इत्यादौ "कर्तृकरणे कृता बहुलमिति" समासो न स्यात् , पुरुषो राज्ञो, भार्या देवदत्तस्येत्यादाविवासामर्थ्यात् , न च दध्योदनो गुडधाना इत्यादाविवात्राध्याहृतक्रियाद्वारा सामर्थ्य वाच्यम् , तत्र विध्यानर्थक्यादगत्या तथा स्वीकारेऽपि नखभिन्न इत्यादौ साक्षाद्धात्वर्थान्वये बाधकाभावात् । किश्च भावनायास्तिङर्थत्वे भावयति घटमिति वद्भवति घटमित्यपि स्यात् धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् , न चाख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञाया बाधान्न द्वितीयेति वाच्यम् , आख्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वरूपत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विष्णुमित्रस्याकरीतापत्तौ ग्रामस्य गमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात् , “गत्यर्थकमणि द्वितीयाचतुथ्यौँ चेष्टायामनध्वनीति," गत्यर्थकर्मण्येव चतुर्थीवि MARACACAKACANCHAR %2564% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy