SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit समानप्रत्ययस्येत्यर्थः । नन्विदमयुक्तम् , घटोऽयमित्यादौ घटत्वादिसमानपरिणामप्रत्यक्षस्य परापेक्षामन्तरेणैव सर्वानुभवसिद्धत्वात् , न च सामान्यप्रकारकप्रत्यक्षे परापेक्षत्वनियमोऽपि वक्तुं युक्तः, घटत्वं सामान्यमिति प्रतीतेरतथात्वादिति चेत्, सत्यम् , सामान्यीयविशेषणतासम्बन्धेन सामान्यप्रकारकप्रत्यक्षे तथा नियमे दोषाभावात् , घटत्वं सामान्यमित्यत्र तु सामान्यस्य तादात्म्येनैव प्रकारत्वात् , वैसदृश्येऽपीत्थमेव परापेक्षत्वनियमोपपत्तेः, परापेक्षस्यापि कथश्चित्तदनपेक्षत्वं तु न दूषणम्, किन्तु स्याद्वादसाधकत्वाद् भूषणमेव, एतेन सामान्यबोधो न परापेक्षो न वा वैसदृश्यबोधः, किन्तु तद् व्यवहार इत्ययमपि नयोऽनुगृहीतो भवतीत्यादि विभावनीयं सुधीभिः । कथं शबलं दृष्ट्वेत्यादि, (३४. २.३) शबलेन समानो धवल इति प्रत्यये सामान्यपदार्थस्य तद्भिन्नत्वे सति तद्वृत्तिधर्मस्वरूपत्वेन भेदगर्भत्वात् भेदप्रत्ययस्य चाभेदज्ञानविरोधित्वादिति भावः । एकत्वोपचारादिति, उपचरितमेकत्वं तजातीयाभेदरूपमाश्रित्येत्यर्थः। तद्व्यक्तित्वावच्छिन्नभेदवत्ताबुद्धिर्हि तद्व्यक्तित्वावच्छिन्नभेदाभाववत्ताबुद्धि विरुणद्धि न तु तज्जात्यवच्छिन्नभेदाभाववत्तावुद्धिमित्येवं न विरोध इत्यर्थः। न चैवं यां कांचिजातिमादायातिप्रसङ्गो, विशेष्यवाचकपदवाच्यतावच्छेदकजात्यवच्छिन्नभेदाभावाश्रयणेनानतिप्रसङ्गात्, यद्वैकत्वस्य शबलधवलवृत्तिसमानपरिणामगताभेदस्योपचार धर्मिण्यध्यारोपमाश्रित्येत्यर्थः । न चैवमत्रापि सादृश्यान्तरमादायातिप्रसङ्गः, 'आरोपे सती'त्यादिन्यायेन सादृश्यान्तरेणाभेदाध्यारोपायोगादिति मन्तव्यम् । मुख्यमात्मादिद्रव्य इति, (३४. २.४) मुख्यं स्कन्धपरिणामकृतमेकत्वमात्मादिषु द्रव्येष्वित्यर्थः । सादृश्ये तृपचरितमिति (३४.२.४) प्रथमपक्षे सादृश्यइत्यस्य सादृश्यानिमित्तमित्यर्थः । द्वितीयपक्षे CONCACANCY CH -%ASA For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy