SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ज्ञानस्य च सद्विषयकत्वानवधारणं प्रामाण्यसंशय इति यावदित्याह, तदिह करोत्यर्थभावनारूपधर्मिज्ञानाद्विशेषादर्शनात् यज्यर्थतदितरकोटिद्वयोपस्थितेश्च विशेषसंशयाद् युक्तो विशेषप्रश्न इति बोध्यम् । तत्र स्वलक्षणेषु, विज्ञानवादिमतमायातमिति, ( २९. २.१) तावतापि सौगतपक्षो न क्षीयत इति भावः । परमार्थसदायातमिति, ( २९. २. २) अनिच्छतोऽपि योगाचारस्येति शेषः, विकल्पबुद्धौ प्रतिभासमानस्य सामान्याकारस्य मुख्यतायाः स्वयमेवाभ्युपगमात्तस्य च ज्ञानसामग्रीमात्रप्रभवस्य निर्विकल्पकेऽपि युक्तत्वाद्विशेषरूपताया अपि च बहिरथे गौणत्वे च ज्ञानमात्र एव तत्वतो विश्रान्तत्वादिति हृदयम् । विपर्ययस्यापीति, (२९. २. ४) अनुभूयमानेऽनुगतव्यावृत्ताकारद्वयेऽन्यतरासत्यत्वे विनिगमकाभावादिति निष्कर्षः। विचार्यमाणायोगादिति (२९. २.७) किं स्यात् सा चित्रकस्यामित्यादियुक्तरिति भावः । एतेन बाह्यान्तरार्थानां सर्वेषां सामान्यविशेषात्मकतासाधनेन, भेदाप्रतिष्टितेः विशेषागोचरत्वात् । भेदमात्रस्येति, (२९.२.१४) | अनुवृत्तरूपावगाहिनि ज्ञानेऽन्ततस्तदाश्रयतयैव भेदावगाहनादिति भावः । सामान्य ग्रहण एवानुमानव्यापारो व्यक्तिस्त्वा क्षेपतो लभ्यतइति तु न वक्तुं युक्तम् , आक्षेपस्याप्यनुमानत्वात् , अनुमिती सामान्यविषयताप्रवादस्तु व्यापकतानवच्छेदकततव्यक्तित्वरूपेण व्यापकानवगाहित्यात प्रत्यक्षवृत्तिस्पष्टताख्यविपयिताभावाद्वा समर्थनीयः। ताभ्यामिति, (३०.२.४) ताभ्यां स्थाणुपुरुषाभ्यां विशेषाभ्यां, तस्योर्द्धतासामान्यस्य, व्यतिरेको भेदश्चेत्, किं न दूरे व्यक्तिभानप्रतिबन्धकदूरत्ववति देशेऽवभासनं स्यादेव, विशेषात सामान्यस्य भेदे एकभासकससामय्यभावेऽपरतदभावस्य नियन्तुमशक्यत्वादिति भावः । इष्टापतावाह-दृरेऽवभासमानस्यास्पष्टाकारस्य सामान्यस्य सन्निधानेऽतिशयेन भासनं स्यात् । यहरेऽस्पष्टमनुभूयते तत्समीपेऽत्यस्पष्टं For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy