________________
Shri Mahavir Jain Aradhana Kendra
wwwkobarth.org
Acharya Shri Kailassagarsun Gyanmandir
शङ्कते-'तेषामित्यादि, ' तेषां ताथागतादीनाम् , अभ्रान्तत्वस्य प्रवृत्तिविशेषणत्वे नियोगप्रामाण्यस्य सर्वप्रवृत्त्यविशेषे तस्या अभ्रान्तत्वं सर्व प्रत्यविशिष्टं बलादापततीति पुरुषविशेषणत्वं वाच्यम् , तत्र च नोक्तदोषोद्धारः, परस्परापेक्षया द्वयोरपि भ्रान्तत्वादित्याशयवानुत्तरयति-परेषामपीत्यादि न च वेदप्रामाण्यांशमात्रेभ्रान्तत्वोपादानाददोषो गुरूणामिव वेदान्तिनां नियोगस्य प्रवर्तकत्वप्रसङ्गात् , यत्किश्चिद्यावद्वेदप्रामाण्यविकल्पकृतदोषस्य दुरुद्धरत्वाच्च, तदा फलार्थितैव प्रवर्तिका न नियोगइति । यद्यपि फलार्थितामात्रान्न प्रवृत्तिः, किन्तु फलार्थितया स्वर्गादेरिष्टत्वसम्पत्तौ तत्साधनताज्ञानाद् यागादौ चिकीर्षाद्वाराप्रवृत्तिस्तत्साधनता च साक्षाद्वाधिता सती परम्परयैव सुग्रहेति तद्घटकापूर्वोपस्थित्यर्थ शुद्धकार्यरूपनियोगे लिङः शक्तिकल्पनान्नियोगस्य प्रवर्तकत्वमावश्यकम् , तथापि लिङः शक्तिर्न कार्यत्वविशिष्टे गौरवात् , किन्तु कार्यत्व एव लाघवात् , एवं हि लिखपदत्वेनैव कार्यत्वानुभावकता नतु लौकिकलिङ्पदत्वेनेति, न च यागेऽन्वयप्रयोजकेष्टसाधनत्वरूपयोग्यताज्ञानासम्भवात् स्वर्गकामकार्यत्वान्वयबोधासम्भवः, अन्वयप्रयोजकरूपवत्त्वस्य भेकानन्वयितोयेऽपि सत्त्वेन योग्यतात्वनिरासादेकपदार्थेऽपरपदार्थसंसर्गवचस्यैव योग्यतात्वव्यवस्थापनात् , तस्य च ज्ञानं संशयनिश्चयसाधारणं हेतुरिति यागे स्वर्गकामकार्यत्वसंशयसम्भवात् कथं न योग्यताज्ञानम् । न चेष्टसाधनत्वमपि लिङ्गा बोधयितुमशक्य, रूपवांश्चैत्र इत्यत्र रूपपदेन नीलत्वादीन्युदस्य रूपसामान्यस्येव साक्षात्परम्परात्वमुदस्य साधनतासामान्यस्य लिङा बोधने बाधकाभावात् , न चैकविशेषबाधे शाब्दसामान्यज्ञानस्य तदितरविशेषप्रकारतानियतत्वात् घटेन जल
* पत्र, १७ पृ. १ पं. १ ।
4%%A4%
For Private And Personal Use Only