________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyarmandir
न चेदं स्वार्थव्यवसायात्मनो ज्ञानस्य दुरवबोधम् । सकलदेशकालपुरुषापेक्षया सुष्टु निश्चितमसम्भवडाधकत्वं हि प्रमाणस्याभ्यस्तविषये खत एवावसीयते, स्वरूपवत् । अनभ्यस्तविषये तु परत इति नानवस्थेतरेतराश्रयदोषोपनिपातः । स्वार्थव्यवसायात्मकत्वमेव हि सुनिश्चितासम्भवहाधकत्वम् । तचाभ्यासदशायां न परतः प्रमाणात्साध्यते, येनानवस्था स्यात्, परस्पराश्रयो वा, तस्य स्वत एव सिद्धत्वात् । तथानभ्यासदशायामपि परतः स्वयंसिद्धप्रामाण्याद्वेदनात् पूर्वस्य तथाभावसिद्धेः कुतोनवस्थादिदोषावकाशः?, कचिदभ्यासानभ्यासौ तु प्रतिपत्तुरदृष्टविशेषवशाद्देशकालादिविशेषवशाच्च भवन्तौसम्प्रतीतावेव, यथावरणक्षयोपशममात्मनः सकृदसकृद्वा स्वार्थसंवेदनेऽभ्यासोपपत्तेः। स्वार्थव्यवसायावरणोदये वाऽसंवेदने सकृत्संवेदने वा संवेदनपौनःपुन्येपि वानभ्यासघटनात् । पूर्वापरं स्वभावत्यागोपादानान्वितस्वभावस्थितिलक्षणत्वेनात्मनः परिणामिनोभ्यासानभ्यासाविरोधात् । सर्वथा क्षणिकस्य नित्यस्य वा प्रतिपत्तुस्तदनुपपत्तेरभीष्टत्वात्। नन्विदं सुनिश्चितासम्भवहाधकत्वं संवेदनस्य कथमसर्वज्ञो ज्ञातुंसमर्थ इति चेत्, सर्वत्र सर्वदा सर्वस्य सर्व संवेदनमसुनिश्चितासम्भवहाधकमित्यप्यसकलज्ञः कथं जानीयात् ? तत एव संशयोस्त्विति चेत्, सोपि तथाभावेतरविषयः सर्वस्य सर्वदा सर्वत्रेति कथमसर्वज्ञः शक्तोवबोद्धम् ? स्वसंवेदने तथावबोधात्सर्वत्र तथावबोध इति चेत् , तानुमानमायातं विवादाध्यासितं संवेदनं सुनिश्चितासम्भवद्वाधकत्वेतराभ्यां सन्दिग्धं, संबेदनत्वादस्मत्संवेदनवदिति । तच्च यदि सुनिश्चितासंभवडाधकं सिद्धं
For Private And Personal Use Only