________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सति प्रमाणत्वनिश्चय इति । अन्यतः प्रमाणत्वनिश्चये किमेतया बाधानुत्पत्त्या ? न च बाधानुत्पत्तेर्यथार्थग्रहणनिबन्धनत्वं स्वत एव निश्चीयते सन्देहाभावप्रसङ्गात् । दृश्यते च सन्देहः, किं यथार्थग्रहणानत्र बाधानुत्पत्तिराहोस्वित्स्वकारणवैकल्यादित्युभयसंस्पर्शिप्रत्ययोत्पत्तेः क्वचिद्दूरे मरीचिकायां जलज्ञाने स्वकारणवैकल्याद्वाधकप्रत्ययानुत्पत्तिप्रसिद्धेरभ्यासदेशे तत्कारणसाकल्याद्वाधकज्ञानोत्पादात् । किञ्चार्थसंवेदनानन्तरमेव बाधानुत्पत्तिस्तत्प्रामाण्यं व्यवस्थापयेत् सर्वदा वा ? न तावत्प्रथमविकल्पः संभवति, मिथ्याज्ञानेपि कचिदनन्तरं बाधानुत्पत्तिदर्शनात् । सर्वदा बाधानुत्पत्तेः संविदि प्रामाण्यनिश्चयश्चेत्, न, तस्याः प्रत्येतुमशक्यत्वात्, संवत्सरादिविकल्पेनापि बाधोत्पत्तिदर्शनात् । चिरतरकालं बाधस्यानुत्पत्तावपि स्वकारणवैकल्यात् कालान्तरेप्यसौ नोत्पत्स्यते इति कुतो निश्चयनीयः ? कचित्तु मिथ्याज्ञाने तज्जन्मन्यपि बाधा नोपजायते, स्वहेतुवैकल्यात् । न चैतावता तत्प्रामाण्यम् । किञ्च कचिद्देशे स्थितस्य बाधानुत्पत्तिः प्रतिपत्तुः सर्वत्र वार्थसंविदि प्रामाण्यहेतुः ? न तावत्प्रथमः पक्षः, कस्यचिन्मिथ्यावबोधस्यापि प्रमाणत्वापत्तेः । नापि द्वितीयः, कस्यचिद्दूरे स्थितस्य बाधानुत्पत्तावपि समीपे बाधोत्पत्तिप्रतीतेः सर्वत्र बाधास्थितस्य बाधानुत्पत्तिसन्देहात् । समीपे बाधानुत्पतावपि दूरे बाधोत्पत्तिसंभावनाच्च । किश्व कस्यचिद्वाधानुत्पत्तिः सर्वस्य वा ? न तावत् कस्यचिद्वाधानुत्पत्तिः संविदि प्रामाण्यहेतुः, विपर्ययेपि भावात् । मरीचिकादौ तोयज्ञाने देशान्तरगमनादिना बाधानुत्पत्तावपि प्रमाणत्वाभावात् । सर्वस्य बाधानुत्पत्ति
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir