________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagersun Gyanmandir
4 तत्त्वपरिच्छेदकप्रमाणविशेषरहितं सर्वं पुरुषसमूहं संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत् , तथा
तत्त्वोपप्लववादित्वव्याघातात् । ननु चानुपप्लुततत्त्ववादिनोपि प्रमाणतत्त्वं प्रमेयतत्त्वं च प्रमाणतः सिद्ध्येत् प्रमाणमन्तरेण वा ? प्रमाणतश्चेत्तदपि प्रमाणान्तरतः सिद्ध्यदित्यनवस्थानात्कुतः प्रमाणतत्त्वव्यवस्था ? यदि पुनः प्रथमं प्रमाणं द्वितीयस्य व्यवस्थापकं द्वितीयं तु प्रथमस्यष्यते तदेतरेतराश्रयणान्नैकस्यापि व्यवस्था । स्वतः प्रमाणस्य प्रामाण्यव्यवस्थितेरयमदोष इति चेत्, न, सर्वप्रवादिनां तत्र विप्रतिपत्त्यभावप्रसङ्गात् । कुतश्चित्प्रमाणात्तद्विप्रतिपत्तिनिराकरणे तत्रापि प्रमाणान्तराद् विप्रतिपत्तिनिराकरणेन भाव्यमित्यनवस्थानमप्रतिहतप्रसरमेव । परस्परं विप्रतिपत्तिनिराकरणे चान्योन्यसंश्रयणं दुरुत्तरम् । प्रमाणमन्तरेण तु प्रमाणादितत्त्वं यदि सिद्ध्येत्तदा तदुपप्लवव्यवस्थापि तथा दुःशक्या निराकर्तुम् । स्यान्मतम् । "विचारोत्तरकालं प्रमाणादितत्त्वव्यवस्थितिः। विचारस्तु यथाकथञ्चित्क्रियमाणो नोपालम्भार्हः, सर्वथा वचनाभावप्रसङ्गात्" इति। एवं तर्हि तत्वोपप्लववादिनामपि विचारादुत्तरकालं तत्वोपप्लवब्यवस्था तथैवास्तु सर्वथा विशेषाभावात् । एवं च तत्र प्रमाणतत्त्वमेव तावद्विचार्यते, कथं प्रमाणस्य प्रामाण्यम् ? किमदुष्टकारकसन्दोहोत्पाद्यत्वेन, बाधारहितत्त्वेन, प्रवृत्तिसामर्थेनान्यथा वा ? यद्यदुष्टकारकसन्दोहोत्पाद्यत्वेन तदा सैव कारकाणामदुष्टता कुतोवसीयते ? न तावत्प्रत्यक्षान्नयनकुशलादेः संवेदनकारणस्यातीन्द्रियस्यादुष्टतायाः प्रत्यक्षीकर्तुमशक्तः। नानुमानात्, तदविनाभाविलिङ्गाभावात् । विज्ञानं तत्कार्य
For Private And Personal Use Only