SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir किं प्रमाणम् ? तथा प्रसिद्धिरन्यत्रापीति न प्रत्यक्षं तदभावावेदकम् , अतिप्रसङ्गस्य दुष्परिहारत्वात् । नानुमानम् , असिद्धेः । प्रत्यक्षमेकमेव प्रमाणम् , अगौणत्वात्प्रमाणस्य अनुमानादर्थनिश्चयो दुर्लभः, सामान्ये सिद्धसाधनाद् विशेषेऽनुगमाभावात् सर्वत्र विरुद्धाव्यभिचारिणः संभवात् । इति स्वयमनुमानं निराकुर्वन्ननुमानादेव सर्वज्ञप्रमाणान्तराभावं व्यवस्थापयतीति कथमनुन्मत्तः ? प्रतिपत्तुः प्रसिद्धं हि | प्रमाणं स्वप्रमेयस्य निश्चायक, नाप्रसिद्धम् , अतिप्रसङ्गादेव । परप्रसिद्धमनुमानं सर्वज्ञप्रमाणान्तराभावग्राहकमिति चेत्, तत् परस्य प्रमाणतः सिद्धं प्रमाणमन्तरेण वा ? यदि प्रमाणतः सिद्धं नाऽनात्मसिद्ध नाम, परस्येवात्मनोपि वादिनः सिद्धत्वात् प्रमाणसिद्धस्य सर्वेषामविप्रतिपत्तिविषयत्वाद्, अन्यथातिप्रसङ्गात्, प्रत्यक्षस्यापि प्रमाणसिद्धस्य विप्रतिपत्तिविषयत्वापत्तेरनात्मसिद्धत्वप्रसङ्गात् । ततो यत्परस्य प्रमाणतः सिद्धं तच्चार्वाकस्यात्मसिद्धम् । यथा प्रत्यक्षम् । प्रमाणसिद्धं च परस्यानुमानम् । तस्मान्नानात्मसिद्धम् । अन्यथा परस्यापि न सिद्धयेत्, अतिप्रसङ्गादेव । तथा हि, यत् प्रमाणमन्तरेण सिद्धं तत्परस्यापि न सिद्धम् । यथा तदनमिमततत्त्वम् । प्रमाणमन्तरेण सिद्धं च परस्यानुमानम् । तन्न सिद्धं स्वयमनभिमततत्त्वसिद्धिप्रसङ्गात् । तदिमे स्वयमेकेन प्रमाणेन सर्व सर्वज्ञरहितं पुरुषसमूहं संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत्, अतिप्रसङ्गादेव । स्वयमनिष्टं ह्यतीन्द्रियप्रत्यक्षमेषां स्यात् , इन्द्रियप्रत्यक्षेण सर्वज्ञरहितस्य पुरुषसमूहस्य संवेदनानुपपत्तेः प्रमाणान्तराभावस्येव प्रमाणान्तरमन्तरेण । इति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy