________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ३० ॥
www.kobatirth.org
विभिन्नते " ति । तदेतदसदेव, सामान्य भेदयोर्बुद्धिभेदस्य सिद्धत्वात् । सामान्यबुद्धिह तावदनुगताकारा विशेषबुद्धिः पुनर्व्यावृत्ताकारानुभूयते, दूरादृर्द्धतासामान्यमेव च प्रतिभाति न स्थाणुपुरुषविशेषौ तत्र सन्देहात् । तद्विशेषपरिहारेण प्रतिभासनमेव सामान्यस्य ततो व्यतिरेकावभासनम्, एतावन्मात्रलक्षणत्वात्तद्व्यतिरेकस्य । यदप्युक्तम्, ," ताभ्यां तद्व्यतिरेकश्चेत् किन्नदूरेव भासनम् । दूरेवभासमानस्य सन्निधानेतिभासन ” मित्येतदप्युक्तम्, विशेषेपि समानत्वात् । सोपि हि यदि सामान्याद्व्यतिरिक्तस्तदा दूरे वस्तुनः स्वरूपे सामान्ये प्रतिभासमाने किन्न प्रतिभासते ? न हीन्द्रधनुषि नीले रूपे प्रतिचकासति पीतादिरूपं दूरान्न प्रतिचकास्ति । अथ निकटदेशसामग्रीविशेषप्रतिभासस्य जनिका न दूरदेशवर्त्तिनां प्रतिपत्तॄणामिति न विशेषप्रतिभासनं, तर्हि सामान्यप्रतिभासस्य जनिका दूरदेशसामग्री काचिन्निकटदेशवर्त्तिनां नास्ति । ततो न निकटे तत्प्रतिभासनमिति समः समाधिः । अस्ति च निकटे सामान्यस्य प्रतिभासनं स्पष्टं विशेषप्रतिभासनवत् । यादृशं तु दूरे तस्याऽस्पष्टं प्रतिभासनं तादृशं न निकटे विशेषप्रतिभासनवदेव । विशेषो हि यथा दूरादस्पष्टः प्रतिभाति न तथा सन्निधाने, स्वसामय्यभावात् । अत एव च न सामान्यस्य प्रतिभासने विशेषेष्वप्रतिभासमानेष्वऽस्पष्टप्रतिभासव्यवहारः, प्रतिभासमानरूपे एव सामान्ये विशेषे वा अस्पष्टव्यवहारदर्शनात् । न प्रतिभासितान्यप्रतिभासिता वा कस्यचिदस्पष्टप्रतिभासिता । किं तर्हि ? कुतश्चिदृष्टादृष्टकारणकलापादस्पष्ट
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
॥ ३० ॥