________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री
विवरणम्॥
प्रथमः॥
॥ २८ ॥
रेणापि प्रथमतरमेव स्मरणात् संशयः। तस्मात्करोतीति तदेव यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टानुमानात्सामान्यम् । तदेतदपि प्रज्ञापराधविजृम्भितं प्रज्ञाकरस्य, करोत्यर्थसामान्यस्यानध्यवसाये यज्याद्यर्थविशेषानवगतावेव तत्संशयोपगमात् । न च सामान्यध्यवसिते ततोन्यत्र, विशेषेनध्यवसिते संशीतावतिप्रसङ्गः, सामान्यविशेषयोः कथञ्चिदभेदात्, । हिमवद्घटादीनां तु परस्परमत्यन्तभेदात् । एकत्र निश्चयेपि नानवगततदन्यतमे संशीतिर्यतोतिप्रसङ्गः स्यात् । नापि सामान्येनाक्षिप्ते तद्विशेषसंशयोपगमोस्ति यतस्तदाक्षेपपक्षनिक्षिप्तदोषोपक्षेपः । न चैवमनभिमततद्विशेषेष्वविशेषेण संशयोनुषङ्गी, स्मरणविषये एव विशेषेऽनेकत्र संशयप्रतीतेः । सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशय इति वचनात् । सामान्ये ह्युपलभ्यमाने तदविनाभाविनो विशेषस्यानुपलभ्भेपि नाभावः सिद्ध्यति, तदभावे तस्याप्यभावप्रसङ्गात् । तदुक्तम्, “निर्विशेषं हि सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच विशेषस्तद्वदेव हि" ॥ न चैवं विशेषेऽदृश्यानुपलब्धेरेव संशयः, स्मृतिनिरपेक्षत्वप्रसङ्गात् । विशेषस्मृतिरेव संशय इति चेन्न, सा ध्यसाधनव्याप्तिस्मृतेरपि संशयत्वप्रसङ्गात् । सर्वसाधनानां संशयितसाध्यव्याप्तिकत्वापत्तेस्तत्स्मृतेरचलितत्वान्न संशयत्वमिति चेत्तर्हि चलिता प्रतीतिः संशयः। सा चोभयविशेषस्मृत्युत्तरकालभाविनी, तदन्वयव्यतिरेकानुविधानात् । न पुनर्विशेषस्मृतिरेव सामान्योपलब्धिवत्। तदुभयांशावलम्बिनी स्मृतिः संशीतिरित्यपि फल्गुप्रायम्, तदविचलनेपि संशीतिप्रसङ्गात् । सामान्याप्रत्यक्ष
॥ २८॥
For Private And Personal Use Only