SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir प्रत्ययार्थत्वात् । स च धात्वातिरिक्तः कर्तृसाध्यः । तस्य कर्तृभेदाढ़ेद इति । ततः कटं कुरुत इति द्विवचनम् । धात्वर्थस्तु शुद्धो न कारकभेदानेदी । स्यादाकूतम् । “ सम्बन्धाद्यदि तद्भेदो धात्वर्थस्याप्यसौ भवेत्। सोपि निर्वर्त्य एवेति तङ्गेदेनैव भिद्यताम्"। अस्माकं तु,“ विवक्षापरतन्त्रत्वाद्भेदाभेदव्यवस्थितेः । लाभिधानात्कारकस्य सर्वमेतत्समञ्जसम् ॥ क्रिया कर्तुः कर्मणश्च भेदेन हि विवक्ष्यते”॥सा यदा लकारेणाभिधीयते न कर्ता, तदा कर्तरि तृतीया भवति । यदा कर्ताभिधीयते तदा प्रथमार्थत्वात्प्रथमा भवति । क्रियते महात्मना, करोति महात्मेति । तदेतदपि पक्षपातमात्रम् । सौगतस्य भेदाभेदयोर्वस्तुरूपयोः प्रतीतिसिद्धत्वेन तद्विवक्षावशात् तथा व्यवहारस्य पारमार्थिकत्वोपपत्तेः ततो युक्ता शब्दव्यापाररूपा शब्दभावना, पुरुषव्यापाररूपाऽर्थभावना च । तत्र हि कर्तृव्यापारस्तिा प्रतिपाद्यते । स एव च भावना। तथा चाह, भावार्थाः कर्मशब्दाः। भावनं भावो प्यन्ताद्धप्रत्ययः । तथा च सति भावनैवासौ । भावना च कर्तृव्यापारः स चोदितः स्वव्यापारे प्रवर्तते इति। नियोग्यस्य च तच्छेषत्वादप्रधानत्वादवाक्यार्थत्वम् । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्तते । कथं चासौ कर्ता स्वव्यापारं प्रतीयन्नेव प्रवर्तते अन्यथा स्वव्यापारे एव न चोदितो भवेत् । स्यान्मतम् , “व्यापार एष मम किमवश्यमिति मन्यते । फलं विनैव नैवं चेत् सफलाधिगमः कुत" इति । तदप्यसमीक्षिताभिधानम् , अग्निष्टोमेन यजेत स्वर्गकाम इत्यादिवेदवाक्यसामर्थ्यादेव पुरुषेण तदा मम एष व्यापार इति प्रत्यतुं शक्यत्वात् । ममेदं कर्त्तव्यमिति For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy