________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
विधावपि विषयधर्मे समानत्वात्कुतो विषयधर्मो विधिः। पुरुषस्यैव विषयतयावभासमानस्य विषयत्वात्तस्य च परिनिष्पन्नत्वान्न तद्धर्मस्य विधेरसम्भव इति चेत्, तर्हि यजनाश्रयस्य द्रव्यादेः सिद्धत्वात्तस्य च विषयत्वात्कथं तद्धर्मो नियोगोऽपि न सिद्धयेत् ? येन रूपेण विषयो विद्यते तेन तद्धर्मों नियोगोऽपीति, तदनुष्ठानाभावे विधिविषयो येन रूपेणास्ति तेन तद्धर्मस्य विधेः कथमनुष्ठानम् ?, येनांशेन नास्ति तेनानुष्ठानमिति चेत्, तन्नियोगेऽपि समानम्। कथमसन्नियोगोऽनुष्ठीयते अप्रतीयमानत्वात् स्वरविषाणवदिति चेत्, तत एव विधिरपि नानुष्ठेयः। प्रतीयमानत्वादनुष्ठेयतया चासिद्धत्वादनुष्ठेयो विधिरिति चेत्, नियोगोऽपि तथास्तु। नन्वनुष्ठेयतयैव नियोगोऽवतिष्ठते, न प्रतीयमानतया, तस्याः सकलवस्तुसाधारणत्वात् , अनुष्ठेयता च यदि प्रतिभाता कोऽन्यो नियोगो यस्यानुष्ठितिरिति चेत्, तर्हि विधिरपि न प्रतीयमानतया प्रतिष्ठामनुभवति, किन्तु विधीयमानतया, सा चेदनुभूता कोन्यो विधिर्नाम यस्य विधानमुपनिषद्वाक्यादनुकर्ण्यते। ननु द्रष्टव्यादिवाक्येनात्मदर्शनादिकं विहितं ममेति प्रतीतेरप्रतिक्षया) विधिः कथमपाक्रियते, किमिदानीमग्निहोत्रादिवाक्येन यागादिविषये नियुक्तोऽहमिति प्रतीतिर्न विद्यते येन नियोगः प्रतिक्षिप्यते, सा प्रतीतिरप्रमाणमिति चेत्, विधिप्रतीतिः कथमप्रमाणं न स्यात् , विधिप्रतीतेः पुरुषदोषरहितवेदवचनेन जनितत्वादिति चेत्, तत एव नियोगप्रतीतिरप्यप्रमाणं मा भूत्, सर्वथाप्यविशेषात् । तथापि नियोगस्य विषयधर्मस्यासम्भवे विधेरपि तद्धर्मस्य न सम्भवः । शब्दस्य विधायकस्य धर्मो विधिरित्यपि न निश्चेतुं शक्यम् , नियोगस्यापि नियो
SAXANDRAKARMA
For Private And Personal Use Only