________________
Shri Maharan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
ARRIAAAASASARAS*
भावो विधिरिति कल्पनायां तु विधिर्वाक्यार्थ इति न किञ्चिद्वाक्यार्थ इत्युक्तं स्यात् । किञ्च यदि विधिः सन्नेव तदा न कस्यचिद्विधेयः पुरुषस्वरूपवत् । अथासन्नेव तथापि न विधेयः खरविषाणवत् । अथ पुरुषरूपतया सन् दर्शनादिरूपतया त्वसन्निति विधेयः स्यात् , तदोभयरूपतापत्तिः । न सन्नाप्यसन विधिरिति चेत, तदिदं व्याहतम् , सर्वथा सत्यप्रतिषेधे सर्वथैवासत्त्वविधिप्रसङ्गात् , तनिषेधे वा सर्वथा सत्त्वविध्यनुषङ्गात् । सकृदुभयप्रतिषेधे तु कथञ्चित्सदसत्त्वविधानान्मतान्तरानुषङ्गात् कुतो विधिरेव वाक्यार्थः । किश्च विधिःप्रवर्तकस्वभावो वा स्यादप्रवर्तकस्वभावो वा?। प्रवर्तकस्वभावश्चेत्, वेदान्तवादिनामिव ताथागतादीनामपि प्रवर्तकः स्यात् । तेषां विपर्यासान्न प्रवर्तक इति चेत् , तत एव वेदान्तवादिनामप्रवर्तक इत्यपि शक्येत। सौगतादीनामेव विपर्यासोऽप्रवर्त्तमानानां, न पुनः प्रवर्त्तमानानां विधिवादिनामित्यप्रामाणिकमेवेष्टम् , उभयेषां समानाक्षेपसमाधानत्वात् । यदि पुनरप्रवर्तकस्वभाव एव विधिः, तदा कथं वाक्यार्थः स्यान्नियोगवत् । किश्च विधिः फलरहितो वा स्यात् फलसहितो वा?। फलरहितश्चेत्, न प्रवर्तको नियोगवदेव । पुरुषाद्वैते न कश्चित्कुतश्चित्प्रवर्तक इति चेत्, कथमप्रवर्तको विधिः सर्वथा वाक्यार्थः कथ्यते, तथा नियोगस्यापि वाक्यार्थत्वप्रसङ्गात् । तथा द्रष्टव्यो रेऽयमात्मेत्यादिवाक्यादात्मनि दर्शनश्रवणानुमननध्यानविधाने प्रतिपत्तुरप्रवृत्तौ किमर्थस्तद्वाक्याभ्यासः । फलसहितो विधिरिति कल्पनायां फलार्थितयैव लोकस्य प्रवृत्तिसिद्धेव॒या(था)विधिकथनं नियोगकथनवत्।तथापि विधेर्वाक्यार्थत्वे नियोगस्यापि वाक्यार्थत्वं कुतोन
4%AACHARYANA
For Private And Personal Use Only