________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भवेत् (२) ॥ तर्हि प्रमाणप्रमेयरूपो नियोगो भवत्वित्यप्ययुक्तम्- संविद्विवर्त्तत्वापत्तेः, अन्यथा प्रमाणप्रमेयरूपतानुपपत्तेः। तथा च स एव चिदात्मोभयखभावतयात्मानमादर्शयन्नियोग इति सिद्धो ब्रह्मवादः (३) ॥ अनुभयस्वभावो नियोग इति चेत्, तर्हि संवेदन मात्रमेव पारमार्थिकं तस्य कदाचिदप्यहेयत्वादनुभयस्वभाचत्वसम्भवात् । प्रमाणप्रमेयत्वव्यवस्था भेदविकलस्य सन्मात्रदेहतया तस्य वेदान्तवादिभिर्निरूपितत्वात्तन्मतप्रवेश एव ( ४ ) ॥ यदि पुनः शब्दव्यापारो नियोग इति मतं, तदा भट्टमतानुसरणमस्य दुर्निवारम्शब्दव्यापारस्य शब्दभावनारूपत्वात् ( ५ ) ॥ अथ पुरुषव्यापारो नियोगस्तदापि परमतानुसरणम्-पुरुषव्यापारस्यापि भावनास्वभावत्वात्, शब्दात्मव्यापारभेदेन भावनायाः परेण द्वैविध्याभिधानात् ( ६ ) ॥ तदुभयरूपो नियोग इति चेत्, तर्हि पर्यायेण युगपद्वा ? यदि पर्यायेण, स एव दोषः कचित्कदाचिच्छन्दव्या पारस्य पुरुषव्यापारस्य च भावनास्वभावस्य नियोग इति नामकरणात् । युगपदुभयस्वभावत्वं पुनरेकत्र विरुद्धं न शक्यं व्यवस्थापयितुम् (७) ॥ तर्हि तदनुभयव्यापाररूपो नियोगोऽङ्गीकर्त्तव्य इति चेत्, सोऽपि विषयस्वभावो वा स्यात् फलस्वभावो वा स्यान्निस्स्वभावो वा ? गत्यन्तराभावात् । विषयस्वभाव इति चेत् । कः पुनरसौ विषयः ? अग्निष्टोमेन यजेत स्वर्गकाम इत्यादिवाक्यस्यार्थो यागादिविषय इति चेत्, स तद्वाक्यकाले स्वयमविद्यमानो विद्यमानो वा ? यद्यविद्यमानस्तदा तत्स्वभावो नियोगोऽविद्यमान एवेति कथमसौ वाक्यार्थः खपुष्पवत् । बुद्ध्यारूढस्य भाविनस्तस्य वाक्यार्थत्वे सौगत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir