________________
Shri Mahavir Jain Aradhana Kendra
१५०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
निर्गुणोऽपि वरं वंशो रक्षायै मुनिदण्डवत् । सगुणोऽप्यर्धवंशः स्याज्जीवघाताय केवलम् ॥ ७२ ॥ शुद्धवंशजकोदण्डसरलस्त्वमभूः पुरा । इदानीं गुणसंयोगात्यं तु तव वक्रता ॥ ७३ ॥ कोटिद्वयस्य लाभेऽपि नतं सद्वंशजं धनुः । शरस्त्ववंशजः स्तब्धो लक्ष्याप्तेरपि शङ्कया ॥ ७४ ॥ या पाणिग्रह लालिता गुणवती साध्वी च सल्लक्षणा
गौरी स्पर्शसुखावहा तिसरला तन्वी सुवंशोद्भवा । सा केनापि हृता तया विरहितो गन्तुं न शक्तः क्षणं किं भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥ ७५ ॥ जगति विदितमेतत्काष्ठमेवासि मन्ये
तदपि हि किल सत्यं यद्वने वर्धितासि ।
नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्
मुशल किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ७६ ॥ घनसारो नद्धश्च तथा न वदति तदपि मृदङ्गः । करतलहननमुपेत्य यदि प्रणदति तदपि सरङ्गः ॥ ७७ ॥ (!) अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
सपदि च विनिमीलत्याकुलं त्वद्वियोगात् । वपुरपि परमेशस्योचितं नोचितं ते
सुरभिमसुरभि वा यत्त्वमङ्गीकरोषि ॥ ७८ ॥ जातिस्तावदुदार भूरुहभवो वर्णः शशाङ्कोज्ज्वलः
सौरभ्यातिशयः स कोऽपि भणितुं यो नैव वाचां पतिः । आखादोऽपि मनोहरस्तव सखे कर्पूर किं वर्ण्यते
केयं कुप्रकृतिः स्थिरीभवसि यन्निर्लक्षणाङ्गारतः ॥ ७९ ॥ अपि त्यक्तासि कस्तूरि पामरैः पङ्कशङ्कया । अलं खेदेन भूपालाः किं न सन्ति महीतले ॥ ८० ॥
For Private And Personal Use Only