________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनिकापुत्र चरित्रं
॥ श्री जिनाय नमः ॥
॥ श्रीचारित्रविजयगुरुभ्यो नमः ।। ॥ अथ श्रीअन्निकापुत्रचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीशुभशीलगणी ) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज जामनगरवाळा) घ्नत्सु वेरिषु योऽत्यंतं ! क्षमां कुर्यात्सुभावतः ॥ अन्निकापुत्रसूरोश । इवानोति शिवश्रियं ॥१॥ तथाहि-पूर्व श्रीराजगृहाभिधाने नगरे श्रीवीरजिनपादांबजसेवया बद्धतीर्थकरनामकर्मा श्रीश्रेणिकाभिधा राजा राज्यं करोतिस्म. स सर्वदा न्यायमार्गेणेव पृथिवीं प्रशसास. यतः-राज्ञि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनु वर्तते । यथा राजा तथा प्रजाः ॥१॥ तस्य राज्ञश्चिल्लणाद्या अनेका राश्यो बभूवुः, कोणिकाभयकुमारमेघकुमारादयो बहवः, पुत्राश्चासन्. तन्मध्याल्लाभाभिभूतः कोणिको राज्यवांछया श्रेणिकनृपं काष्टपंजरे क्षिप्त्वा स्वयं च राज्ये समुपविष्टः, कमेग श्रेणिकतृपस्य मृत्योरनंतर
For Private and Personal Use Only