________________
Shri Mahavir Jain Aradhana Kendra
अनिकापुत्र चरित्रम् ॥ १३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यभिधानं बभूव राजापि तत्रैव समागत्य निजनिवासमकरोत् व्यवहार्यादयो भूरिलोका अपि तत्रैव समेत्य न्यवसन्, महानंदश्च प्रवर्तितः, तस्य पाटलातरोरसम कुसुमबाहुल्यतया कुसुमपुरमित्यपि तस्य पुरस्य रूढं नाम जातं. ततस्तस्य नगरस्य मध्ये स उदायिराजा कैलासशैलसोदरं स्फटिकाश्ममयं श्रीजिनप्रासादमपि कारयामास, तन्मध्ये चारिष्टरत्नमयीं श्रीनेमिजिनप्रतिमां भूरिद्रव्यव्ययपूर्वकं महोत्सवेन स्थापयामास एवं प्राकाराने कजिनप्रासाद महेभ्यालयवापीकूपतडाग सत्रागारादिरम्यं तन्नगरं स्वश्रिया स्वर्गपुरीमपि जिगाय तत्र नगरे स उदायिराजा जैनधर्मसुवासितसप्तधातुश्चिरं न्यायेन राज्यं पालयामास. | अथान्येद्युः स उदायिराजा धर्मश्रवणार्थं गुरुपार्श्वे गतः, तदा गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा - प्राज्यानि भोज्यानि हि वांछितानि । सौभाग्यनैरोग्य सुयोग्य वयः ॥ रामारमारम्ययशोविलासाः । स्वर्गापवर्गों प्रभवंति धर्मात्. ॥ १ ॥ दारिद्र्यमुद्रा परसेवनं च । दुष्टखभावो विपदागमश्च ॥ एकस्वरंकत्वकदन्नभोज्य- कुरूपमुख्यानि भवत्यधर्मात् ॥ २ ॥ किं च यः कोऽपि भव्यजीवः श्रीशत्रुंजयतीर्थे गत्वा श्रीयुगादिजिनं प्रणमति, स स्वर्गापवर्गों लभते, यतः शत्रुंजये जिने दृष्टे । दुर्गतिद्वितयं क्षिपेत् ॥ सागराणां
For Private and Personal Use Only
मूल
॥ १३ ॥