________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगवत्प्रीत्यर्थमपि ग्रन्थः तालपत्रे लिख्यते । 'यत्करोषि यदश्नासि' इति गीतोक्त्यनुसारम् अस्माभिः फलाभिसन्धिराहित्यपूर्वकं यद्यत्कृत्यं क्रियते तत्सर्वं 'तत्कुरुष्व मदर्पणम्' इत्युक्त्यनुसारं भगवन्मुखोल्लासकारकं भवति । अर्थात् मोक्षप्राप्त्यर्थं भवति । TMSSM Library मध्ये D८५२७ संख्याङ्किते महाभारते राजधर्मपर्वग्रन्थः अस्ति । तत्र पुष्पिकानन्तरम् - 'शार्वरिसंवत्सरे उत्तरायणे शिशिरतौ माघमासे शुद्धचतुर्थीशुक्रवासरे तञ्जापुर्या वेङ्काजीवासुदेवपण्डितैः शाण्डिल्यगोत्रोद्भवैः मोक्षादिपुरुषार्थसाधनार्थं श्रीसत्यभामारमणश्रीलक्ष्मीरमणगोपालकृष्णप्रीत्यर्थं संग्रहः कृतः' इति लिखितम् ।
रत्न-सुवर्ण-रजत-धनादीनां दानेन किमपि ऐहिकम् आमुष्मिकं फलं प्राप्यत इति धर्मशास्त्रादिग्रन्थेषु दृश्यते। उपरागादिविशेषावसरेषु यथा रत्नादीनि दीयन्ते । तथा ग्रन्थोऽपि तालपत्रादिषु विलिख्य कस्मैचित् दानरूपेण दीयते स्म ।
इत्थं प्राचीनकाले तालपत्रादिषु ग्रन्थलेखनस्य प्रयोजनानि वक्तुं शक्यन्त इति सप्रमाणम् अत्र निरूपितम् ।
तालपत्रेषु उपयुक्ताः लिपयः - ग्रन्थ-तेलुगु-कन्नड-मलयालम्-ओरिया-वङ्ग-शारदा-नन्दिनागरिप्रभृतयः। तालपत्रेषु देवनागरिलिपिः नोपयुज्यते स्म । तत्र कारणं किम् इति समालोचिते इदं वक्तुं शक्यत यत् अत्यन्तप्राचीनकाले देवनागरिलिपिः नासीत् । कालान्तरे नन्दिनागर्याः परिवर्धितरूपैव देवनागरी । किं च देवनागरिभिन्नलिपयः सर्वाः वर्तुलाकाराः । अर्थात् एकैकमप्यक्षरं तेलुगुप्रभृतिषु वर्तुलाकारेण भवति । तालपत्रे लिखितुं सौकर्यं भवति, तालपत्रस्यापि हानिः न भवति । देवनागरिलिप्यां प्रत्यक्षरम् उपरि रेखा कर्तव्या । तेन पत्रस्य क्षतिप्रसक्तिर्भवति । एतत्कारणेनैव देवनागरिलिपिः नोपयुक्तेति वक्तुं शक्यते ।
ग्रन्थलेखनाय तालपत्रस्यैवाधिकतयोपयोगः कृतः पुरातनकाले । तत्र कारणं किमिति जिज्ञासायां कर्गजपत्रापेक्षया तालपत्रस्य आयुःकालः निरवधिकः । तालपत्रस्य जलादीनां सम्बन्धे सत्यपि नाशो न भवति । तद्गताक्षराणामपि हानिः न भवति । कर्गजपत्राणां तावत् जलादिसम्बन्धे सति नाशः, तद्गताक्षराणां च नाशः भवितुमर्हति। तालपत्रस्य रक्षणं कर्गजपत्ररक्षणापेक्षया सुलभम् ।
तालपत्रं द्विप्रकारकं भवति । सामान्यतालपत्रं श्रीतालपत्रमिति । श्रीतालपत्रं स्वतः मसृणम्, विस्तृतम्, एकस्मिन्नेव पृष्ठे अनेकाः पङ्क्तयः, एकस्यां पङ्क्तौ अनेकानि अक्षराणि च लिखितुं शक्यन्ते । प्रायः श्रीमद्रामायणश्रीमद्भागवत-महाभारत-पुराणादयः ग्रन्थाः आकारेण श्लोकसंख्यया महान्तः भवन्ति । इमे श्रीतालपत्रे एव विलिख्यन्ते ।
___ एतादृशहस्तलिखितग्रन्थानां संकलनम् अष्टादशशतके आङ्ग्लशासनकाले समुपक्रान्तम् । तदानीं गमनागमनादीनां समुचितव्यवस्थाया अभावेऽपि अश्वादिप्राणिषु आरुह्य प्रतिग्रामं प्रतिविद्वद्गृहं गत्वा तालपत्रादीनां पर्यवेक्षणं कृतम् । तस्यैव परिणामः १७८४ वर्षे William Jones नाम्ना विदुषा Bengal Asiatic Society नाम्नी संस्था संस्थापिता । तत्र १८३२ वर्षे ४२५३ प्राच्यविद्याग्रन्थाः Fort William Collegeग्रन्थागारात् स्थानान्तरिताः । तेषु संस्कृतविषयाः १८०० ग्रन्था आसन् ।
गच्छता कालेनास्यापरा शाखा १९०४ मुम्बईनगरे स्थापिता । आदावत्र २०६८ मातृका आसन् । तदा महामहोपाध्यायपाण्डुरङ्गवामनकाणे, पि.बि.गजेन्द्रगकर प्रभृतयः तत्र कार्यमकुर्वन् ।
१८५७ वर्षे रणवीरसंस्कृतानुसन्धानसंस्था जम्मूनगरे स्थापिता । तत्र सार्धषट्सहस्रं हस्तलिखितग्रन्थाः संरक्षिताः । अस्य विवरणसूची १८८८ वर्षे M.A. Stein नाम्ना विदुषा संपाद्य प्रकाशिता ।
काशीराजकीयसंस्कृतकलाशालायाः सरस्वतीभवनं १७९१ वत्सरे तत्प्रदेशस्थतालपत्राणां संकलनव्यापार
(v)
For Private and Personal Use Only