________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्वर
जावेंगे उनसे युक्त ये ज्वर बराबर पाये जाते हैं। ये क्यों होते हैं इसके सम्बन्ध में पाश्चात्य वैज्ञानिक अभी बहुत बड़े संशय कल्प से होकर गुजर रहे हैं। . भगवान् पुनर्वसु आत्रेय ने आठ प्रकार के ज्वर का वर्णन करने के पूर्व ज्वरोत्पत्ति के आठ कारण बतलाये हैं । इसका वर्णन उन्होंने निम्न शब्दों में किया है। .. — इह तु ज्वर एवादौ विकारागामुपदिश्यते, तत्प्रथमत्वाच्छाराराणाम् । अथ खल्वष्टभ्यः कारणेभ्यो ज्वरः सजायते मनुष्याणाम् । तद्यथा-वातात् , पित्तात् , कफात्, वातपित्ताभ्यां, वातकफाभ्यां, पित्तश्लेष्माभ्यां, वातपित्तश्लेष्मभ्यः, आगन्तोरष्टमात् कारणात् । तस्य निदानपूर्वरूपलिङ्गोपशयसम्प्राप्तिविशेषानुपदेक्ष्यामः।
अब हम आगे इन आठों प्रकार के ज्वरों का वर्णन आरम्भ करेंगे।
वातज्वर
(१) तस्येमानि लिङ्गानि भवन्ति, तद्यथा-विषमारम्भिविसर्गित्वम् , ऊष्मणो वैषम्यं, तीव्रतनुम्भवानुवस्थानानि ज्वरस्य, जरणान्ते दिवसान्ते निशान्ते धर्मान्ते वा ज्वराभ्यागमनमभिवृद्धि ज्वरस्य, विशेषेण परुषारुणवर्णत्वं, नखनयनवदनमूत्रपुरीषत्वचामत्यर्थ क्लप्तीभावश्च, अनेकविधोपमाश्चलाचलश्च वेदनास्तेषां तेषामगावयवानां, तद्यथा पादयोः सुप्तता, पिण्डिकयोरुद्वेष्टनं, जानुनोः केवलानां च सन्धीनां विश्लेषणम्, ऊोंः वादः, कटीपार्श्वपृष्ठस्कन्धबाह्रसोरसां च भग्नरुग्णमृदितमथितचटितावपीडितावनुन्नत्वमिव, हन्वो श्वाप्रसिद्धिः, स्वनश्च कर्णयोः, शङ्खयोनिस्तोदः, कषायास्य- ताऽऽस्यवैरस्यं वा, मुखतालुकण्ठशोषः, पिपासा, हृदयग्रहः, शुष्कछर्दिः, शुष्ककासः, क्षवथूद्गारविनिग्रहः, अन्नरसखेदः, प्रसेकारोचकाविपाकाः, विषादविजृम्भाविनामवेपथुश्रमभ्रमप्रलापजागरणरोमहर्षदन्तहर्षास्तथोष्णाभिप्रायता, निदानोक्तानामनुपशयो विपरीतोपशयश्चेति वातज्वरलिङ्गानि स्युः।
(चरक) (२) वेपथुर्विषमो वेगः कण्ठोष्ठपरिशोषणम् । निद्रानाशः क्षवस्तम्भो गात्राणां रौक्ष्यमेव च ॥
शिरोहृद्गावरुग्वक्त्रवैरस्यं गाढविटकता । शूलाध्माने जम्भणं च भवन्त्यनिलजे ज्वरे ।। (सुश्रुत) (३) आगमापगमक्षोभमृदुता वेदनोष्मणाम् । वैषम्यं तत्र तत्राङ्गे तास्ताः स्युर्वेदनाश्चलाः ॥
पादयोः सुप्तता स्तम्भः पिण्डिकोद्वेष्टनं क्लमः । विश्लेप इव सन्धीनां साद ऊर्बोः कटीग्रहः ।। पृष्ठं क्षोदमिवाप्नोति निष्पीड्यत इवोदरम् । भिद्यन्त इव चास्थीनि पार्श्वगानि विशेषतः ॥ हृदयस्य ग्रहस्तोदः प्राजनेनेव वक्षसः । स्कन्धयोर्मथनं बाह्वोर्भेदः पीडनमंसयोः ।। अशक्तिर्भक्षणे हन्वोजभणं कर्णयोः स्वनः । निस्तोदः शङ्खयोनि वेदना विरसास्यता । कयायास्यत्वमथवा मलानामप्रवर्तनम् । रूक्षारुणत्वगास्याक्षिनखमूत्रपुरीषता ॥ प्रसेकारोचकाश्रद्धाविपाकास्वेदजागराः। कण्ठोष्ठशोषस्तृटशुष्कौ छर्दिकासौ विषादिता ॥ | रोमाङ्गदन्तेषु वेपथुः क्षवथोर्ग्रहः। भ्रमः प्रलापोधर्मेच्छा विनामश्चानिलज्वरे। (वृद्धवाग्भट) ( ४ ) वेपथुर्विषमवेगशोषणं कण्ठतालुवदने विरस्यता ।
रूक्षता वपुषि बन्धकुक्षयोज़म्भणं शिरसि झग्विनिद्रता ॥ कृष्णता करहां प्रलापको गात्रभङ्गबलवान् बिभत्स्यति ।
शीतवत्स्वपिति जाग्रतो नरो लक्षणैर्भवति वातकृज्ज्वरः ॥ ( हारीत ) (५) हृत्पृष्ठगात्रशिरसामतिवेदनानि विष्टम्भरूक्षविरसत्वविजम्भणानि ।
आध्मानशूलमललोचनकृष्णतातिश्वासोरुकासविषमोष्मककम्पनानि ।। स्तब्धातिसुप्ततनुतातिहिमाप्रियत्वनिद्राक्षतिश्वसनसम्भवलक्षणानि ।। वातज्वरे सततमेव भवन्ति तानि ज्ञात्वानिलघ्नमचिराद्विचरेद्यथोक्तम् ॥ (उग्रादित्याचार्य)
For Private and Personal Use Only