________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्प्राप्तिविमर्श
१०५१
चैक इति । यद्यपि वृद्धैर्दोषैः सन्निपातात्रयोदश, यदुक्तं चरकेण - 'द्वयल्बुणैकोल्बणैः षट् स्युहीन - मध्याधिकैश्च षट् । समैश्चैको विकारास्ते सन्निपातात्रयोदश' ( च. सू. अ. १७ ) इति तथाऽप्यत्र त्रिदोषजत्वसामान्यात् सान्निपातिक एकत्वेन गणितः । एवं कामशोकभयाद्यनेककारणजोऽप्यागन्तुज आगन्तुजत्वसामान्यादेकत्वेन निर्दिष्ट इत्यष्टौ ज्वरा इति । विकल्पं विवृणोति - दोषाणामित्यादि । समवेतानां परस्परसंबद्धानां तेन द्वन्द्वसन्निपातयोर्ग्रहणम् । अंशांशकल्पनेति - अंशा वातादिगतरौक्ष्यादयः तैरेकद्विव्यादिभिः समस्तैर्वा वातादिकोपावधारणकल्पना : यदुक्तं सुश्रुते - 'सर्वैर्भावैस्त्रिभिर्वाऽपि द्वाभ्यामेकेन वा पुनः । ससर्गे कुपितः क्रुद्धं दोषं दोषोऽनुधावति -' इति ( सु. सू. अ. २१ ) । एवंविधञ्च दोपकोपो निदानवैचित्र्याद्भवति । तद्यथा - वातस्य रौक्ष्यशैत्यलाघववैशद्यादिगुणस्य एवंगुणः कषायरसः कलायच सर्वैर्भावैर्वर्धकः, रौक्ष्यशैत्यलाघवैस्तण्डुलीयकः, रौक्ष्यशैत्याभ्यां काण्डेक्षुः, शैक्ष्येग सीधुः; तथा पित्तस्य सर्वैर्भावैवर्धकः कटुको रसो मद्यं च, हिङ्गु कटूष्णतीक्ष्णत्वैः, दीप्यकस्तैउपयोष्ण्याभ्याम्, औष्ण्येन तिलाः; तथा इलेष्मणः सर्वैर्भावैर्वर्धको मधुरो रसो माहिषं च पयः, स्नेहगौरवमाधुर्ये राजादनफलं कशेरुः शैत्यगौरवाभ्यां शैत्येन क्षीरिणां फलानीति । अपरगुणोदाह
प्रकारा जेज्जरगदाधर वाप्य चन्द्रव्याख्याविशेषाश्च विस्तरत्वापत्तरत्र न लिखिताः । प्राधान्यं विवृगोति-स्वातन्त्र्य पारतन्त्र्याभ्यामिति । अनुबन्ध्यानुबन्ध भावेनेत्यर्थः । अत्रापि 'दोषाणां समवेतानाम् ' इत्यनुवर्तनीयम् । 'अप्राधान्यं च' इति शेषः, गम्यमानत्वान्नोपदशितम् । तेन स्वातन्त्र्यात् प्राधान्यं, पारतन्त्र्यादप्राधान्यमिति सिध्यति । वलं विवृणोति - हेत्वादीत्यादि । हेतुपूर्वरूपरूपाणां साकल्याद्वयाधेर्बलवत्त्वं तेषामवयवेनैकदेशेनाबलवत्त्वम् । कालं विवृणोति - नक्तमित्यादि । नक्तं रात्रिः, दिनमहः, ऋतवो वसन्तादयः, भुक्तमाहारः, एषामंशैरेकदेशैः; व्याधिकालो व्याधिवृद्धिहानिहेतुः कालः । अत्र, ऋतोरंशाः कतिपयान्यहोरात्राणि, यदाह वाग्भटः - 'ऋत्वोरन्त्यादिसप्ताहावृतुसंविरिति स्मृतः इति ( वा. सू. अ. ३ ); संवत्सररूपस्य कालस्य ऋतुरूपोंऽशः ऋत्वंश इत्येवमपि योज्यं, नत्वेकस्य ऋतोर्दिनादिवदादिमध्यान्ता ऋत्वंशाः, ऋतोः समुदितस्य तत्र कारणत्वेनोतत्वात् । यथामल यथादोषं; तद्यथा - रात्रेरादौ श्लेष्मा, मध्ये पित्तं, शेषे वायुः एवं दिनस्य; वसन्ते कफस्य, शरदि पित्तस्य, वर्षासु वायोः एवं भुक्तादौ भुक्तमात्रे कफस्य, मध्ये पच्यमानावस्थायां पित्तस्य, अन्ते सम्यक्परिणते भुक्ते वायो प्रकोप इति । तदुक्तं वाग्भटेनैव - 'ते व्यापिनोऽपि हन्ना - भ्योरधोमध्योर्ध्वसंश्रयाः । वयोऽहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्' इति ( वा. सू. अ. १ ) । अत्र ते इति क्रमेण वातपित्तश्लेष्माणः । ननु, संप्राप्तिभेदे चरकेण संख्यादिवद्विधिरप्युक्तः; यथा'द्विविधा व्याधयो निजागन्तुभेदेन' (च. नि. अ. १ ); 'त्रिविधं रक्तपित्तम्' ( च. सू. अ. १९ ) इत्यादि; तत् कुतोऽत्र विधिर्नोक्तः ? उच्यते, संख्याग्रहणेन विधेरवरोधः, तस्याव्यभिचरितसंख्यायोगित्वात् । विधिसंख्ययोश्चायं भेदः - विधिर्हि प्रकारः, स चाभिन्नजातीयानामेव कस्यचिद्धर्मान्तरस्यान्वयाद्भवति, यथा- रक्तपित्तत्वाविशेषेऽप्यूर्ध्वगादिप्रकारो भवतिः संख्या तु भिन्नत्वमात्रेऽपि; यथा - चत्वारो घटाः, अष्टौ ज्वरा इति । अत्रैव विधिर्हि प्रकारः, स च भिन्नेषु न युक्तः, अतः संख्यादिभिन्नेषु व्याधिषु कारणधर्मानुगतः प्रकारो युज्यते । तथा च न्यायविदो ब्रुवते - 'समानेन धर्मेण परिग्रहो भेदानां यत्र क्रियते स विधिः, संख्या तु भेदमात्रम्' इति; वैयाकरणा अपिव्याचक्षते - 'अन्वयवान् प्रकारः, निरन्वयो भेदः' इति वाप्यचन्द्रो लिखितवान् । ननु यथांऽशांशविकल्पनादिना ज्वरो ज्ञायते न तथा संख्यया । उच्यते - संख्या भेदेन व्याधेर्दोषभेदो ज्ञायते, यतो ज्वरादिकं स्वरूपतो ज्ञात्वा चिकित्सार्थं विशेषो जिज्ञास्यः, कतमोऽयं ज्वरः ? इति तस्मिन् ज्ञाते विशेषो भवतीति परंपरया कारणत्वं संख्यायाः । तत्र यद्युत्पद्यमान एवासौ दोषभेदाद्भिन्नो जा (ज्ञा ) तस्ततो युक्तमस्य पर्येषणं - कतमोऽयमिति । कुतः ? चिकित्साविशेषार्थम् । इति संप्राप्तिलक्षणम् ॥ ११-१३ ॥
संख्या, विकल्प, प्राधान्य, बल और काल की विशेषताओं के आधार पर सम्प्राप्ति के भेद किये जाते हैं । जैसे आगे ( ज्वरनिदान में ) कहेंगे कि ज्वर आठ होते हैं । ( यह
For Private and Personal Use Only