________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लघु-शान्ति स्तव। ४३ दुरितौघ-नाशन-कराय सर्वा-ऽशिव-प्रशम नाय । दुष्ट ग्रह भूत पिशाच-शाकिनीनां प्रम थनाय ॥५॥ यस्येति नाम मन्त्र-प्रधान वाक्योपयोग-कृत-तोषा। विजया कुरुते जनहित-मिति च नुता नमत तं शान्तिम् ॥६॥ भवतु नमस्ते भगवति !, विजये! सुजये ! परापरैरजिते!। अपराजिते ! जगत्यां जयतीति जयावहे भवति ! ॥७॥ सर्वस्यापि च संघस्य, भद्र-कल्याण-मंगल-प्रददे। साधूनां च सदा शिव-सुतुष्टि-पुष्टि-प्रदे-जीयाः ॥८॥ भव्यानां कृत-सिद्धे !, निर्वति-निर्वाण-जननि! सत्त्वा नाम् । अभय-प्रदान-निरते !, नमोऽस्तु-स्वस्तिप्रदे ! तुभ्यम् ॥ ६ ॥ भक्तानां जन्तूनां, शुभावहे नित्यमुद्यते ! देवि !। सम्यग्दृष्टीनां धृति-रति. मति-बुद्धि-प्रदानाय ॥१०॥ जिन-शासन-निर तानां, शांति-नतानां च जगति जनतानाम् । श्रीसम्पत्-कीर्ति-यशो-वर्द्धनि ! जय देवि !
For Private And Personal Use Only