________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२० अभय रत्नसार । यः पठेदिदम्। मनोऽभिलषितं सर्व, फलं स लभते ध्रुवम् ॥ ४॥भूशय्याब्रह्मचर्येण, क्रोधलोभ विवर्जितः । देवता पवित्रात्मा, षण्मासैलभते फलम् ॥ ५ ॥ अर्हन्तं स्थापये मूर्ध्नि, सिद्ध चक्षुर्ललाटके। आचार्य श्रोत्रयोमध्ये, उपाध्यायं तु घ्राणके ॥ ६॥ साधुवन्दं मुखस्याग्रे, मनः शुद्ध विधाय च । सूर्य-चन्द्र-निरोधेन, सुधीः सर्वार्थ सिद्धये ॥७॥ दक्षिणे मदन-द्वेषी, वाम-पार्वे स्थितो जिनः। अङ्गसंधिषु सर्वज्ञः, परमेष्ठी शिवङ्करः ॥८॥ पूर्वाशां श्रीजिनो रक्षे,-दाग्ने यी विजितेन्द्रियः । दक्षिणाशां परं ब्रह्म, नैऋतीं च त्रिकालवित् ।।। पश्चिमाशां जगन्नाथो, वायवीं परमेश्वरः। उत्तरां तीर्थकृत् सर्वामीशानी च निरञ्जनः ॥१०॥ पातालं भगवानहन्नाकाशं पुरषोत्तमः। रोहिणी प्रमुखा देव्यो, रक्षन्तु सकलं कुलम् ॥ ११ ॥ ऋषभो मस्तकं रक्षे-दजितोऽपि विलोचने।
For Private And Personal Use Only