________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८ अभय रत्नसार । शान्तिभवतु, श्रीपौर-लोकस्य शान्तिभवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु, श्रीराज-संनिवेशानां शान्तिर्भवतु,श्रीगोष्ठिकानां शान्तिर्भवतु। ॐ स्वाहा २ ॐ ह्रीं श्री पार्श्वनाथाय स्वाहा । एषा शान्तिः प्रतिष्ठा. यात्रा स्नात्रावसानेषुशान्तिकलशं गृहीत्वा कुङ्कम. चन्दन-कर्पूरागुरु-धूप-वाप्त-कुसुमाञ्जलि-समेतः स्नात्रपीठे श्रीसंघसमेतः शुचिः शुचिवपुः पुष्पवस्त्र-चन्दनाभरणालंकृतः, चन्दनतिलकं विधाय कण्टे कृत्वा शान्तिमुद्घोषयित्वा शान्ति-पानीयं मस्तके दातव्यमिति । नृत्यन्ति नत्यं मणि-पुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिष के ॥१॥ अहं तित्थयर-माया, सिवादेवी तुम्ह-नयर-निवासिनी अम्ह सिवं तुम्ह सिवं, असुहोवसमं सिवं भवतु स्वाहा ॥ २॥ शिवमस्तु सर्व-जगतः, पर हित- निरता भवन्तु
For Private And Personal Use Only