________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभय रत्नसार । ध्वंस-हेतुः॥१॥ भो भो भव्यलोका इह हि भरतैरावत-विदेह-सम्भवानां. समस्त-तीथेकतां जन्मन्यासन-प्रकम्पानन्तर-मवधिना विज्ञाय सौधर्माधिपतिः सुघोषा-घण्टा-चालना-नन्तरं सकल-सुरासुरेन्द्र : सह समागत्य सविनयमहद्भट्रारकं गृहीत्वा गत्वा कनकाद्रिशृङ्ग विहितजन्माभिषेकः शान्ति-मुदघोषयति, ततोऽहं कृता-नुकारमिति कृत्वा, ‘महाजनो येन गतः स पन्थाः' इति भव्य-जनैः सह समागत्य, स्नात्र. पीठे स्नात्र विधाय शान्तिमुद्घोषयामि। तत्पूजायात्रा-स्नानादि-महोत्सवानन्तरम् , इति कृत्वा कणं दत्वा निशम्यतां स्वाहा ॥ ॐ पुण्याहं २, प्रीयन्तां २, भगवन्तोऽर्हन्तः सर्वज्ञाः, सर्वदर्शिनः। त्रैलोक्य-नाथाः, त्रैलोक्य-महिताः, त्रैलोक्य-पूज्याः, त्रैलोक्येश्वराः, त्रैलोक्योद्योतकराः ॥ ॐ श्रीकेवलज्ञानि १, निर्वाणि २, सागर ३, महायशः ४, विमल ५, सर्वानुभू -
For Private And Personal Use Only