________________
B. Pāņiniya School
89 यः शास्त्रलोकव्यवहारविद्योः जगत्समग्रं स्ववशं व्यतानीश(त्)। तमर्भकं कृष्णगुरोर्ममाभिरामेश्वराचार्य गुरुंगुणाब्धिः ॥ १० ॥ श्रीविठ्ठलाचार्यगुरोस्तनूज सौजन्यभाजं जितवादिराजम् । अनन्तसंज्ञ पदवाश्र(क्य !)विज्ञं प्रमाणचिन्तं तमहं नमामि ॥११॥ श्रीनागनाथं जितवाजिनाथं विद्याधिनाथं वशराजनाथम् । श्रीकृष्णसूतं विबुधं नमामि बह्वत्रयोगाहित (?) गोष्यतीति ॥१२॥ जगन्नाथाश्रमं वन्दे यतिवेदान्तकोविदम् ! पदवाक्यप्रमाणझं स्वधर्मनिरतं सदा ॥१३॥ श्रीरामाचार्य सुनुः हरिहरभजनैकायधीश्रीनृसिंहा.......................................
व्याख्यारूपं प्रसादं विशदमकरवं विठ्ठलस्तेन तुष्यात् ॥१४॥
इति श्रीप्रकियाप्रसादवृत्तिः समाप्ता ॥ संवत् १७१७ वर्षे आसू सुदि १०। दिने बुधवासरे। श्री बृहत्खरतरगच्छेश श्रीयुगप्रधान श्री १०८ श्रीमज्जिनचंद्रसूरिशिष्य पं० भुवनमरुगणि तच्छिष्य वाचनाचार्यवर्यधुर्य श्रीपुण्यरत्नगणिशिष्यपं० दयाकुसलगणि लिखितेयं प्रलादप्रतिरियं ॥ शिष्यपं० धर्ममंदिरमुनिपठनार्थ । श्रीप्रल्हादनपुरे । वाच्यमानानां सुखं भूयात् ॥ श्रीभट्टारकश्रीमज्जिनसागरसूरि । आचार्य श्रीजिनधर्मसूरिविजयराज्ये ॥ यादृशं० ॥१॥ भग्नपृष्टि० ॥२॥ तैलाद्रक्षे०॥३॥ ग्रंथायं १८०० ॥ वाच्यमाना चिरं नंदतु ॥ लेखकपाठकयोः शुभं भवतु ॥ श्रीः ॥
प्रक्रियाकौमुदीप्रसाद
Prakriyākaumudiprasāda
No. 104
284 1880-81
Size - 121 in. by 5 in. Extent -- 397 leaves, 10 lines to a page, 48 letters to a line. 12 [ Des. Cat., Vol. II]