________________
220.1
Vaidyaka
275
कुर्यात्सकनकां पृथ्वी सशैलवनकाननां । इदं च परमं गुह्यं रक्षणीयं प्रयत्नतः ॥३८॥ कुशि-.-शिष्येभ्यो न देयस्य कस्यचित् । व्यसनोपहते चैव त्वरितं फलकांक्षिणे॥३९॥ शठानां निंदकानां च गोपनीयं प्रयत्नतः। द्विजदेवार्चने नित्यं गुरुभक्तो दृढव्रतः॥४०॥ तस्यै शिष्याय दातव्यं पूर्वमेवच्छिवोब्रवीत् ।। शुभक्ताय सुशिष्याय विद्यादानं च कारयेत् ॥४१ ।। पातु नो रसराजेन्द्र सिद्धिं यच्छतु साधके। शिवप्रसादानिर्विघ्नं रससार कृतो मया ॥४२॥ प्रसीदतु रसेंद्रो मे शिवसिद्धिं च यच्छतु। यत्प्रसादान्मया पूर्वो रससार कृतो भुवि ॥ ४३॥ एकधा दशधा चैव शतधा च सहस्रधा। मत्प्रतप्रयोगेषु सिद्धिः ज्ञेया विचक्षणैः॥ ४४॥ यदस्ति सर्वशास्त्रेषु तदिहास्त्यखिलं स्फुटं । यदिहास्ति तदन्यत्र नैवास्ति रसकर्मणि ॥४५॥
श्री॥ इति श्रीगोविंदाचार्यविरचिते रससारे महारससेवाधिकारे पंचविंशः पटळः ॥ समाप्तः॥ श्री.
सुवर्ण रजतं तानं रीरी कांस्यं तथा त्रषु । सीसं च चीमरं चैव अष्टै लोहानि वक्ष्यते। ज्योतिष्मतीबृहत्यौ छे अंकुल्लत्वम् तथैव च ॥१॥
॥शुभं भवतु ॥ References.- ( 1 ) Mss.-A-Aufrecht's Catalogus Catalogorum :
i,49603; ii, II6° and 22033; iii, 106'..
___B-Descriptive Catalogues :Catalogue of Ulwar Mss. No. 1669. Extr. 427. Burnll's Catalogue, p. 70*.
(2) Printed Edition : Edited by Vaidya Jādavji Tricumji Achārya Bombay, 1912. (Ayurvediya-grantha-mala, No. VI).