SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ 296 Vedānta [223 Begins. * स्वस्ति प्रजाभ्यः ॥ श्रीगणेशाय नमः ॥ श्रीः ॥ इह हि सकललोकविविधशल्योद्धरणानुग्रहगृहीतहृदयेन परमेश्वरावतारेण साक्षाच्छीकृष्णेन गीतास्वनवरतं प्रतिपादितपरमतत्वस्वरूपसंजातपरमास्मदर्शनः सन् धनंजयः परानुग्रहाय संशयितमना इव पुनरपि श्रीकृष्णं ज्ञानस्वरूपं पृच्छति ॥ अर्जुन उवाच ॥ यदेतनिष्कलं ब्रह्म म्योमातीतं निरंजनम् । कैवल्यं केवलं शांतं शुद्धमत्यंतनिर्मलम् ॥१॥ अप्रतक्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ।। ज्ञानयोगविनिर्मुक्तं तश्शानं ब्रूहि केशव ॥२॥ हे केशव श्रीकृष्ण तत् ज्ञानं बृहीत्यन्वयः ॥ के जले शेते इति . . . Ends. अतश्च प्राणदृढीकरणरहस्यज्ञानेन यस्थ बाह्यं शरीरं दग्धं भवति तस्य योगिनः पुनर्जन्म न विद्यते मोक्षप्राप्तेरिति यावत् ॥ इति श्रीगीतासारटीकाब्रह्मसंबोधिनी समाप्ता॥ कृतिः श्रीनरसिंहपादपप्रपरागपुंजपवित्रितानां श्री श्रीधराचार्याणाम् ॥ इति शुभं भद्रं । संवत् ६४ पौ शुति ६ शुक्रे इयं समाता कृष्णद्वैपायनजलनिधौ तस्वदर्थोपगूढे क्रुद्धः कृष्णाहिपतिविवलत्पार्थमंथाद्धिजुष्टे । श्रीकृष्णेनाविरलविबुधामत्यतार्थविगाढे स्वच्छं गीतामृतमुदभवत्सद्रसाप्लावितं यत् ।। संसारेस्मिस्तत्वतात्पर्यतृप्त्यै टीकाख्याता ब्रह्मसंबोधिनी यम् । आचार्येण श्रीधरेण त्रिवेणीसंगस्नानक्षालितांतर्मलेन ॥ रागाविष्टे विक्रमादित्यशाके माधे श्लिष्टे सोमवारेण दर्श। सिद्धयोगे विष्णुनक्षत्रकृष्टे सिद्धक्षेत्रे माधवास्थाविशिष्टे ॥ ॥ * * *
SR No.018117
Book TitleDescriptive Catalogue Of Manuscripts Vol 09 Part 01
Original Sutra AuthorN/A
AuthorSumitra Mangesh Katre
PublisherBhandarkar Oriental Research Institute
Publication Year1949
Total Pages504
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy