________________
1157]
The Digambara Works
281
Ends -fol. 209a
बहुना(अ)किमुक्तेन समुत्तीर्य भवार्णवं । महत्पदं समामोति मात्रैलोक्यवंदितः ॥ ३१ ॥ श्रीमन्नेमिचरित्रमुत्तममिदं नानाकथापूरितं । पापध्वांतविनाशनकतरणिं कारुण्यवल्लीवनं । भव्यश्रेणिमनःप्रमोदसदनं भत्त्यानघ(घं) कीर्तनं । नानासत्पुरुषालिचेष्टितयुतं पुण्यं शुभं पावनं ॥ ३२ ॥ श्रीवर्द्धमानेन जिनेश्वरेण । त्रैलोक्यवंदौ(दे?)न यदुक्तमादौ । ततः परं गौतमसंज्ञकेन । गणेश्वरेण प्रथितं जनानां ॥३३॥ तत: क्रमाच्छ्रीजिनसेननाम्नाचार्येण सेनागमकोविदेन । सत्कान्यकेलीसदनेन पृथ्वीं । नीतं प्रसिद्धं चरितं हरेश्च ॥ ३४ ॥ श्रीकुंदकुंदान्वयभूषणोऽथ । बभूव विद्वान् किल पमनंदी। मुनीश्वरो वादिगजेंद्रसिंहः । प्रतापवान् भूवलये प्रसिद्धः॥ ३५॥ तत्पट्टपंकजविकाशभास्वान् । बभूव निग्रंथवरप्रतापी । महाकवित्वादिकलाप्रवीणः । तपोनिधिः श्रीसकलादिकीर्तिः । ३६ ॥ पट्टे तदाये गुणवान्मनीषी । क्षमानिधानो भुवनादिकीर्तिः । जीयाचिरं भव्यसमूहवंद्यो । नानायतिवातनिषेवणीयः ॥ ३७ ॥etc. सद्ब्रह्मचारी गुरुपूर्वकोऽस्य । भ्राता गुणज्ञोऽस्ति विशुद्धचित्तः । जिनस्य दासो जिनदासनामा । कामारिजेता विजितो धरियां ॥३९॥ श्रीनेमिनाथस्य चरित्रमेत- । दनेन नीत्वा रविषेणसूरेः। समुद्धृतं स्वान्यसुखप्रबोध-। हेतोश्चिरं नंदतु भूमिपीठे ॥४॥ श्रीमजिनेश्वरपदांबुजचिंचरीकः। तच्छास्त्रसदगुरुषु भक्तिविधानदक्षः । सार्थाभिधोऽसौ जिनदासनामा। दयानिवासो भुवि राजतेऽत्र ॥१॥etc. इति श्रीहरिवंशे भ० नेमिनाथनिर्वाणगमनवर्णनो नाम एकोनचत्वारिंशतमः सर्गः ॥ ३९ ॥
इति श्रीहरिवंशमहाग्रंथः समासः । लिषतनरेंद्रसौभाग्यः लिषायतं पं कल्याणदासजी।
सं १८२२ आषाढ शुक्ल १४ सोमवासरे।
-36 [J.
P.]