SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 523.] IV. 6 Chedasatras 145 श्रीसोमसोमविजयाभिधवाचकेंद्रः। सत्कीर्तिकीर्तिविजयाभिधवाचकश्च ॥ ८॥ सौभाग्यं यस्य भाग्यं कलयितुममलं कः क्षमः सक्षमस्य ? । नो चित्रं यच्चरित्रं जगति जनमनः कस्य चित्रीयते स्म? ॥ चक्राणा मूर्वमुख्यानपि विबुधमणीन हस्तसिद्धिर्यदीया। चिंतारत्नेन भेदं शिथिलयति सदा यस्य पादप्रसादः ॥ ९॥ आबाल्यादपि यः प्रसिद्धमहिमा वे(वै )संगिकग्रामणीः प्रष्ठः शाब्दिकपंक्तिषु प्रति(भ)टैर्जग्यो न यस्तार्किकैः सिद्धांतोदधि मंदरः कविकलाकौशल्यकत्युि( [ )द्भवः शश्वत्सर्वपरोपकाररसिक संवेगवारांनिधिः ॥१०॥ विचाररत्नाकरनामधेय प्रश्नोत्तरायद्भुतशास्त्रवेधाः अनेकशास्त्रार्णवशोधकश्व यः सर्वदैवाभवदप्रमत्तः ॥११॥ तस्य स्फुरद्गुरुकीर्तेर्वाचकवरकीत्तिविजयपूज्यस्य । विनयविजयो विनेयो सुबोधिकां व्यरचयत् कल्पे ॥१२॥ चतुर्भिकलापकं । समशोधयंस्तथैनां पंडितसंविग्नसहृदयवतंसाः । श्रीविमलहर्षवाचकवंशे मुक्तामणिसमानाः ॥ १३॥ धिषणानिर्जितधिषणाः सर्वत्र प्रसृतकीर्तिकर्पूराः। श्रीभावविजयवाचककोटीराः शास्त्रवसुनिकषाः ॥१४॥ युग्मं। . रसशशिरसनिधि( १६९६ )वर्षे ज्येष्ठे मासे समुज्ज्वले पक्षे गुरुपुष्ये यत्नो(s)यं सफलो जज्ञे द्वितीयायां (१५) श्रीरामविजयपंडितशिष्यश्रीविजयविबुधमुख्यानां । अभ्यर्थना(s)पि हेतुर्विज्ञेया(s)स्याः कृतौ विवृतेः ॥१५॥ (१६) यावद्धात्रीमृगाक्षी धरणिधरभरश्रीफलैः पूर्णगर्भ। . चंचवृक्षौघदर्भ 'निषधगिरिमहाकुंकुमामंत्रचित्र। 'जंबूद्वीपाभिधानं 'हिमगिरिरजतं मंगलस्थालमेतद् धत्ते तावत् सुबोधा विबुधपरिचिता नंदतात कल्पत्तिः ॥१६॥ (१७) J. L. P.1 19
SR No.018110
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 02
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy