________________
509.]
IV. 6 Chedasutras
105
Ends.-- (com.) fol. ISI• स्वशिष्यान् ब्रूते नेदं स्वमनीषिकया ब्रवीमि किंतु तीर्थकरगणधरोपदेशेनेति (1) अनेन च गुरुपारतंत्र्यमभिहितामिति ॥ ६४॥
इति श्रीमत् तपागणगगनांगणनभोमणिश्रीवहीरविजयसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायां श्रीकल्पकिरणावल्यां सामाचारीव्याख्यानपद्धतिः समाप्ता ॥ तत्समाप्तौ च समाप्ता श्रीपर्युषणाकल्पे तृतीयवाच्यव्याख्यानपद्धतिः॥
व्याख्योपयोगिनिश्शेषवाच्यरुच्या वचं(च)स्विनां ॥ स्फूर्तिकर्वी सदस्येषा श्रीकल्पकिरणावालः ॥१॥ विक्रमादष्टयुक्षद्कशशांकांकित१६२८वत्सरे ॥ दीपोत्सवदिने दृब्धा 'राजधन्यपुर' पुरे ॥२॥ युग्मं अनुष्टुभो(ड)ष्टचत्वारिंशच्छतानि चतुर्दश ॥
षोडशोपरि वर्णाश्च ग्रंथमानमिहोदितं ॥३॥ इति श्रीकल्पकिरणावलीनाम्नी वृत्तिः ॥ छ ।
श्रीवर्द्धमानप्रभुशासनाभ्र(ब्ज)।
प्रभासने नव्यसहस्रभानोः॥ लीलां दधानो(s)पि सुधैकधामा ।
सुधर्मनामा गणभृद् बभूव (१) तत्पट्टपूर्वाचलचित्रभानवो___(s)नेके बभूवुर्भुवि सूरिशेखराः संप्राप्नुवंतो गुणजां नवां नवां
गच्छस्य संज्ञां किल कौटिकादिकां (२) बृहद्गणांभोनिधिचंद्रसन्निभाः
श्रीमज्जगच्चंद्रगुरूत्तमाः क्रमात् तेषामशेषागमपारगामिनो __समुद्वभूवुर्भुवनकभूषकाः (३) तपोभिर्दुस्तपेः(पैः) प्रापुर्ये 'तपा' इति विश्रुतं बिरुदं बाणनागेंद्रद्विचंद्रांकित१२८५वत्सरे। (४) ततः प्रभृति गच्छो(s)यं 'तपागच्छ इति क्षितौ विख्यातो(s)भूज्जनानंदकंदकंदलनकभूः (५) तत्परंपरया श्रीमदानंदविमलाह्वयाः ।
सूरींद्राः समजायंत जगदानंददायिनः (६) 14 [J.L.P.]