________________
Jaina Literature and Philosophy सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरो(s)सौ ।
सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपात॥१३॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते
कलौ काले मूर्तः सुविहितजनाचारानिचयः॥ विरेजे राजन्वाना(न)शशधरगणो येन विभुना
गुणग्रामो यस्माद् भवति विनयेनैव सुभगः ॥१४॥ खलास्तेजोराशिं चरणगुणराशिं सुविह(हि)ता
विनेयाश्चिद्राशिं प्रतिवचनराशिं कुमतिन: कविः कीर्ति(ते) राशिं वरविनयराशि च गुरवो
विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुं ॥१५॥ गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं ।
_[स्वरितं स्वगंधर्वोद्गीतं शुचिगुणगणोपार्जनभवं ।। चमत्कारोत्कर्षां)त्ससलिलसहस्रानिमिषटक्
पटक्लेदात्(द)केशं सुबहु सहते गिर्यसहत(न): ॥१६॥ तेषां गणे गुणवतां धुरि गण्यमानः
श्रीवाचकः सकलचंद्रगुरुर्बभूव ॥ मेधाविषु प्रथमतः प्रथमानकीर्तिः
____ स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा ॥१७॥ पुनः पुनः संस्मृतिमीयुषीणां ।
प्रतिक्रियेयं यदुपक्रियाणां ।। पुनः पुनर्लोचनसांद्रभावः ।
पुनः पुनर्नि(:श्व)सनस्वभाव (6) ॥१८॥ तेषां शिष्याणुनेयं गुरुजनविहितानुग्रहादेव जंबू
द्वीपप्रज्ञप्तिति(ः) स्वपरहितकृते शांतिचंद्रण चक्रे । वर्षे श्रीविकमार्काद्विधुशरशरभूवनधात्री(१६६१)प्रमाणे . स(रा)ज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिंधोः॥१९॥ अस्योपांगस्य गांभीर्यान्मदीयमतिमांद्यतः। संप्रदायव्यपायाश्च पूर्ववृत्तिनिवृत्तितः ॥२०॥ विरुद्धमागमादिभ्यो यदत्र लिखितं मया धीलोचनैस्तदालौ(लो)च्य शोध्यं सानुग्रहर्मयि ॥२१॥ तुष्यंतु साधवः सर्वे मा रुष्यंतु खला मयि । नमस्करोमि निःशेषान् प्रीत्या भीत्या क्रमादिमान् ॥२२॥