________________
194.]
II. 12 Upangas
179
Ends. ~ fol. 88 जुगुप्साभाषणानि खिंसनानि धिर (Bोडने(डितेोत्यादिवाक्यानि
तर्जनानि अंगुल्या निक्षेपपुरःसरं निर्भर्त्सनानि ताडनानि । कशादिधाताः ॥ छ॥ इति मलयगिरिविरचिता राजप्रश्नीयोपांगवृत्तिका] समर्थिता ॥ समाप्तमिति ।
प्रत्यक्षरगणनातो ग्रंथमानं घिनिश्चितं ।
सप्तत्रिंशत् शतान्यत्र श्लोकानां सर्वसंख्यया । छ ॥ ग्रंथाग्रं ३७९८ (१३७००)॥छ ॥ शुभं भवतु ॥छ॥छ । संवत १५७५ वर्षे कार्तिकमासे शुक्लपक्षे अष्टमीदिने रविवासरे श्री स्तंभर्थि'वास्तव्यश्री'उपकेश वंशालंकारविहितश्री शत्रुजय यात्रापात्रादिवित्तव्ययकरणप्रमुखा)नेकधर्मकर्मप्रकार सा० लटकणभार्या संपूराई तत्पुत्र सा जगसी सा. नीनाभा जगसीभार्या श्री० सोमाई तत्पुत्रसा जयवंत सा. श्रीवंतभा० श्रीगोरी तेन श्रीमद् वृद्धतपागच्छगगनांगाणतरुणसमान । कलिकालयुगप्रधानश्रीरत्नसिंहसूरितत्पट्टानुक्रमेण श्रीउदयसागरसूरिश्रीलब्धिसागरसूरितत्पदृवारिधिनिशामणिभूरिमूरिश(शिरोमणिश्रीगच्छनायकप्रभुभट्टारिकश्रीश्रीश्रीश्रीश्रीश्रीधनरत्नमरिराज्ये उपाध्यायीमुनिसिंघगणितत्सम्य पं.. नयसिंघगणिमुरण्यु)पदेशेन श्रीराजप्रश्नीयवृत्ति(त्तिर्लिषाप्य वाचनार्थ पुस्तिका प्रदत्ता बुधैर्वाच्यमानं चिरं नंदतु ॥
सूर्याचंद्रमसौ यावत् द्योतयेते महीतलं ।
जीयात् श्रीपुस्तकं यावत् । वाच्यमानं मुनिव्रजैः ॥१॥ तथा च ॥
लेखयंति नरा धन्याः ये जिनागमपुस्तकं ।
ते सर्व वानन्यं ज्ञात्वा । सिद्धिं यांति न संशयः ॥२॥ श्री॥
॥ यादृशं पुस्तकं etc. ॥१॥ - भग्नपृष्टिकटिग्रीवा बद्धमुष्टिरधोमुखं ।
कष्टेन लिषितं शास्त्रं यत्नवत् परिपालयेत् ॥२॥
शुभं भवतु लेषकवाचकयोः ॥ कल्याणं भूयादिने दिने । Relerence.-See No. 189. For an additional Ms. see B. B. R. A.S.
vol. III-IV, p. 395 and G. O. Series vol. XXI, p. 42.