________________
158.] Nafaka
105 विद्याधरं वरमजिजनदेष धीर | हीरं जनेषु जयिनं गुरुणोक्तशास्त्रे । प्रासूत सोयममलं गुणिनं सुपुत्रं
तं रत्नपूर्वधरमेष जगद्धरं च ॥३॥ येनापाठिकगेरगोतममतं वैशेषिकं खंडनं येमाप्रावि सकोषकाव्यनिवहं तत्पाणिनीयं मतं ॥ छंदोलंकरणं च भन्यभरते येनाध्यगायिश्रुतिस्तस्या मुख्यजगद्धरस्य कवितुष्टीकेयमुज्जृमतां ॥४॥ असूत यं रत्नधरोति भव्योति भन्यरूपा मदयंति (दमयंती) कापि ॥ जगद्धरं तत्कृतटिप्पणोंकः समाप्तिमापदशमोनवद्यः ॥५॥
इति श्रीमहामहोपाध्याय धर्माधिकरणिकश्रीजगद्धरकृतटीकायां दश. मोका समाप्तः ॥ समाप्तमिदं नाटकं ॥ श्री
ज्वलनगगनभूभृभूमिभिर्भावितेब्दे शुचि बहुलदशम्यां वासरे तिग्मभानोः॥ उदयपुरपुरेदः पुस्तकं संप्रपूर्ण
लिखितमलघुविद्यारामभट्टेन भव्यं ॥१॥ यदत्र वर्णभ्रमतः स्वबुद्धेरियत्तपावानवधानतो वा ॥ स्यादन्यथा लेखनमुत्तमैस्तच्छुभं विधेयं शुभकृत्स्वभावैः ॥२॥ कल्याणं कमलापतिः कलयतां सर्वस्य शर्वः श्रियं भानुरितरामरुंतुदरुजामत्याहितं व्याहतात् ॥ दुर्गादुर्गहने विश्वमवताद्वैमातुरः सर्वदा । निप्रत्यूहमथा दधातु सकलारंभेषु सिद्धिं परां ॥३॥
श्री श्री ॥ लेखितमिदं विद्यारामेण उदयपुरमध्ये सं० १८०३ वर्षे आषाढकृष्णदशम्यां रवी
तातो यस्याभिजातः सहृदयहृदयो वेणिरामाभिधानो गीर्वाणाचार्यदेश्यो ब्रजपतिरितियत्ताततातोथचाभूत् ॥ भट्टो यस्यावटंको विशलनगरजब्रह्मणेषु प्रसूति
विद्यारामस्य तस्यास्त्यमलतरमिदं पुस्तकं नाटकस्य ॥१॥ , अपि च। आलीच्छीव्रजनाथभट्ट इति यत्तातस्य तातस्तथा ।
वेणीराम बुधश्च यज्जनयिता श्रीमान गुणैकार्णवः ॥ तस्य श्रीवरसेविनो निजभुजन्यस्ताक्षरं पुतस्कं.
विद्यारामकवेरिदं विजयते पापग्रमानं सदा ॥२॥ References.-See No. 157.