________________
248
Begins.— ( com. ) fol. rb
श्रीमते नारायणाय नमः नाभिनाली कलोलंबभंगं वाणीतपःफलम् कुटुंबकलशांभोधेः कन्यायाः कलये महः १ अलीकलोच नाटोपादलीकं रतये दधत् विप्रलंभं पुरस्त्रीणां पुष्णतेजो भजामहे २ गिरिपाथोधिपाथोज सूदनानंदधोरणीः पदं कुर्वे नमस्थानां उमालक्ष्मीसरस्वतीः ३ भगवत्पादपादादिकेशस्तु त्यामधुस्तुतः व्याख्या वितन्यते रम्या नाम्नासौ सुखबोधिनी ४
Ends. — ( text ) fol. 29b
Stotra
Ends. (com.) fol. 29b
[1069.
etc.
मोदात्पादादिकेशस्तुतिमिति रचितां कीर्तयित्वा त्रिधाम्नः पादाब्जद्वंद्व सेवाममय कृतन तिर्मस्तके नानमेयः उन्मूल्यैवात्मनै निचयकवचतां पंचतामेत्य भानोबिबांतर्गोचरं सः प्रविशति परमानंदमात्मस्वरूपं २२
इति उक्तप्रकारेण रचितां कृतां पादादिकेशस्तुतिं एतत्स्तोत्रं कीर्तयित्वा सम्यक् पठिता यः साधकः पादाब्जद्वंद्व सेवा समये कृतनतिः भगवत्पादारविंदयुगलभजनवेलायां रचितप्रह्वीभावः सन् आनमेत नमस्कुर्यात् सः आत्मना - Fara नोनिचयकवचतां पापसमूहरूपउरच्छदसंबंधं उन्मूल्यैव समुल - काशकशितैव पंचतामेत्य पांचभौतिक देहसंबंधपरित्यागं प्राप्य भानोः सूर्यस्य बिंबांत ० ॥ चरं मंडलाभ्यंतरे सन्निहितत्वेन प्रतीयमानं य एषोंतर आदित्ये हिरण्मयः पुरुष इत्यादि श्रुतेः परमानंदमात्मस्वरूप प्रविशति तंत्रलीयते ब्रह्मानंदरूपेण अवतिष्टत इत्यर्थः ।। ५२५२ ॥
इति सिद्धम्
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमङ्गोविंदभगवत्पूज्यपादाचार्यशिष्यश्रीमच्छंकर भगवत्पूज्यपादाचार्यविरचिता श्रीविष्णोः पादादिकेशस्तुतिव्याख्या सुखबोधिनीसमाख्या संगृहीता समाप्ताः
संवत् १८९६ फाल्गुण शुदि अष्टमी ८ श्रीकाइयां मध्ये लिख्यतं राधाकृष्णेन स्वपाटार्थम् नारायणाय नमो नमः ॥ 11
References.- Mss :- Aufrecht's Cat Catalo. I, 1914 ; II, 1400;
III, 124*.