________________
Upanigads
यन्मूलप्रवहत्पवित्रपयसः संसेवनादेव मे रागद्वेषमदाभिधाग्रहगणा नेशु (6) स्म संतापिनः । यत्संसारपरिश्रमापहृदया संशीतलामोदभार वंदे तत्पुरुषोत्तमाश्रमगुरोः पादारविंदद्वयं ॥२॥
या काण्वोपनिषत्प्रसिद्धा अशनायेति अशितुमिच्छा (भश ) नाया तया लक्षणभूतया लक्षितेन मृत्युना बुद्धयादितादात्म्यमापन्नेनात्मस्वरूपेणेत्यर्थः॥etc.
Ends -
अथ व शस्तदिदमिति । अत्र प्रथमान्तः शिष्यः पंचम्यंत भाचार्यों बोद्धव्यः ॥भयानंतरं समस्तस्यैव प्रवचनवंशे निखिलकांडमात्रस्य तस्य सर्ववेदपरिशिष्टरूपत्वादयं तु स्त्री प्राधान्येनोच्यते ॥ स्त्रीसंस्कारार्थ पुत्रमंथकर्म सानिध्यात् ।। आदित्ये(न) सूर्येण मोक्तान्यादित्यानि यद्वादित्यात्मना हिरण्यगर्भात्मकानि शुक्लानि शुद्धानि यद्राह्मणे मिश्रितमंत्रात्मकाकानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्यायंते इत्यर्थः ॥ इदं चाचार्यपरंपराकथनं सर्वासु वाजसनेयशाखासु वेदाख्यब्रह्मारभ्य पाठव्युत्क्रमेण सांजीवापुत्रात्सांजीवीपुत्रपर्यंत समानं ।। छ।
यः सद्भूतिलयस्त्रिकांड x षडध्याय प्रभेदस्फुटं(ट) स्कंध(:)सत्पदपल्लवावलिलसच्छाखामयब्राह्मणः ॥ ब्रह्मात्मैक्यफलं( लः) सुवासकुसुमो वंशालवालांबुपः संसेव्यः सततं बुधैः स बृहदारण्याह्वकल्पद्रुमः ॥१॥ भाष्यवार्तिकतदाका मंथन्यारण्यकं दधि ॥ विमथ्य बुद्धिरज्ज्वेदं नवनीतं समद्धतं ॥२॥ महतामाशयं बोर्बु मादृशः कः क्षमो भवेत् ॥ तथापि श्रद्धयास्माभिः सारमेतत्समुद्धृतं ॥३॥ तत्पादपद्ममकरंदरसानभिज्ञा विश्राम्य सा विधिपदादपि संसरंतः ।। न प्राप्नुवंति पशुकर्मरता धनेहास्तस्मै नृसिंहवपुषे हरये नमस्ते ॥ ४॥
इति श्रीपरमहंसपरिवाजकाचार्य पुरुषोत्तमाश्रमपूज्यपादशिष्यश्रीनित्यानंदाश्रमविरचितायां बृहदारण्यकव्याख्यायां मिताक्षरायामष्टमोध्यायः समाप्तः॥ काण्वशाखोक्तबृहदारण्ये व्याख्यानं ॥ श्रीरस्तु ॥ कल्याणमस्तु ।। स्वस्ति श्रीमत्संवत् १७४४ प्रवर्तमाने वर्षे उत्तरायने गते श्रीसूर्य महामांगल्यप्रद मासोत्तममासे प्रथमआषाढमासे शुक्रपक्षे पंचम्यां तिथौ रविवासरे अधेड श्रीकछप्रदेशे भुजनगरवास्तव्य-उदीच्यज्ञातीयद्विवेदी-अग्निहोत्री चातुर्मास्ययाजी दीक्षित श्री ५ रघुरामात्मजेन देवजित्केन लिखितं बृहदारण्यमिताक्षराउपनिषद्भाष्यं ॥ लेखकपाठकयोः शुभं भूयात् ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ छ॥ श्री॥